________________
Shri Mahavir Jain Aradhana Kendra
१
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
ध्याये १ किम् ।
बादजल्पो सम्योजनों, वितण्डा तु परीच्यते वितण्डया प्रवर्त्तमानी वैतण्डिकः । सप्रयोजनमनुयुक्तो यदि प्रतिपद्यते सोऽस्य पच्चः सोऽस्य सिद्धान्त इति वैतण्डिकत्वं जहाति । व्यथ न प्रतिपद्यते नायं लौकिको न परीक्षक इत्यापद्यते । अथापि परपचप्रतिषेधज्ञापनं प्रयोजनं ब्रवीति, एतदपि ताहमेव । यो ज्ञापयति यो जानाति यच्च ज्ञाप्यते एतच्च प्रतिपद्यते यदि तदा वैतण्डिकत्वं जहाति । काथ न प्रतिपद्यते परपचप्रतिषेधज्ञापनं प्रयोजनमित्येतदस्य वाक्यमनर्थकं भवति । वाक्यसमूहश्च स्थापनाहीनो वितण्डा, तस्य यद्यभिधेयं प्रपिपद्यते सोऽस्य पचः स्थापनीयो भवति । अथ न प्रतिपद्यते प्रलापमात्वमनर्थकं भवति वितण्डात्वं निवर्त्तत इति । अथ दृष्टान्तः प्रत्यक्षविषयोऽर्थः । यत्र लौकिकपरीक्षकाणां दर्शनं न व्याहन्यते स च प्रमेयं तस्य पृथग्वचनच तदाश्रयावनुमानागमौ । तस्मिन् सति स्यातामनुमानागभावसति च न स्याताम् । तदाश्रया च न्यायप्रवृत्तिः । दृष्टान्तविरोधेन च परपचप्रतिबेधो वचनीयो भवति दृष्टान्तसमाधिना च स्वपच्चः साधनीयो भवति, नास्तिकश्च दृष्टान्तमभ्युपगच्छन्नास्तिकत्वं जहाति कानभ्युपगच्छन् किं साधन: परमुपालभेतेति निरुक्तेन दृष्टान्तेन शक्यमभिधातुम् " साध्यसा - धर्म्यात् तद्धर्म्मभावो दृष्टान्त उदाहरणं तद्विपरीताद्विपरीतमिति” स्वयमित्यनुज्ञायमानोऽर्थः सिद्धान्तः, स च प्रमेयं तस्य पृथग्वचनम्, सत्य सिद्धान्तभेदेषु वादजल्पवितण्डाः प्रवर्त्तन्ते नातोऽन्यथेति साधनीयार्श्वस्य यावति शब्दसमूहे सिद्धिः परिसमाप्यते तस्य पञ्चावयवाः प्रतिज्ञादयः समूहमपे च्यावयवा उच्यन्ते । तेषु प्रमाणसमवाय यागमः प्रतिज्ञा, हे तुरनुमानम् उदाहरणं प्रत्यचं, उपनयनमुपमानम्, सर्व्वेषामेकार्थसमवाये सामर्थ्यप्रदर्शनं निगमनमिति सोऽयं परमो न्याय इति एतेन वादजल्पवितण्डाः प्रवर्त्तन्ते नातोऽन्यथेति तदाश्रया च तत्त्वव्यवस्था | ते चैतेऽवयवाः शब्दविशेषाः सन्तः प्रमेयेऽन्तर्भूता एवमर्थम् पृथगुच्यन्त इति । तर्के न प्रमाणसङ्ग होतो न प्रमाणान्तरम् प्रभाणानामनुग्राहकतत्वज्ञानाय कल्पते, तस्योदाहरणं किमिदं जन्म कृतकेन हेतुना निवते बाहोखिदलतकेन प्रथाकस्मिकमिति एवमविज्ञ तेऽर्थे कारोप
I
For Private And Personal