________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
न्यायदर्शनवास्यायनभाष्ये
पत्त्या अहः प्रवर्तते यदि कतकेन हेतुना निवर्त्य ते हेतू के दादुपपन्नोऽयं जन्मोच्छदः । अथारुतकेन हेतुना ततो हेतूच्छ दस्थाशक्यत्वा. दनुपपत्रोऽयं जन्मोच्छदः । अथाकस्मिकमतोऽकमाविवर्त्यमानं न पुबनिर्वव्यतीति निवृत्तिकारणं नोपपद्यते तेन जनानुच्छ द इति । एतस्मिंस्तकं विषये कर्मानिमित्त जन्मति प्रमाणानि वर्तमानानि तणानुस्ट ह्यन्ने तत्वज्ञानविषयस्य विभागात्तत्त्वज्ञानाय कल्पाते तर्क इति । सोऽयमित्यम् भतस्तर्कः प्रमाणसहितो वादे साधनायोपालम्भाय वाऽर्थस्य भवतीत्येवमर्थम्पृथगुच्यते प्रमेयान्न भूतोऽपीति, निर्णयस्तत्त्वज्ञानम् प्रमाणानां फलम्, तदवसानो वाद, तस्य पालनार्थं जल्पवितण्डे, तावेतौ तर्कनिर्णयौ लोकयात्रा बहत इति सोऽयं निर्णयः प्रमेयान्तर्भूत एवमर्थम् पृथगुद्दिष्ट इति । वादः खलुः नानाप्रवन कः प्रत्यधिकरणसाधनोऽन्यनराधिकरण निर्णयावसानो वाक्यसमूहः पृथगुद्दिष्ट-उपलक्षणार्थम्, उपलक्षितेन व्यवहारतत्त्वज्ञानाय भक्तीति तहिशेषौ जल्पवितबद्ध तत्त्वा. ध्यवसायसंरक्षणार्थमित्यु तम् । नियहस्थानेभ्यः पृथगुद्दिष्टा हेत्वाभामावादे चोदनीया भविष्यन्तीति, जल्पवितण्डयोस्तु निग्रहस्थानानीति छलजातिनिग्रहस्थानानाम् पृथगुपदेश-उपलक्षणार्थ इति । उपलक्षितानां स्ववाक्ये परिवर्जनम् । छलजाविनियहस्थानानाम् परवाक्ये पर्यनुयोगः । जातेश परेण प्रयुज्यमानायाः सुलभः समाधिः स्वयञ्च सुकरः प्रयोग इति। सेयमान्वीक्षिकी प्रमाणादिभिः पदार्थ विभज्यमाना " प्रदीपः सर्वविद्यानामुपायः सर्वकर्मणाम् । पाश्रयः सर्वधर्माणां विद्योद्देशे प्रकीर्तिता" तदिदं तत्त्वज्ञानं निःश्रेयसाधिगमार्थं यथाविद्य वेदितव्यम् । इहत्वयात्मविद्यायामात्मादितत्त्वज्ञानम्, निःश्रेयसाधिगमोऽपवर्गप्राप्तिः । तत् खलु निःश्रेयसं किन्तत्वज्ञानानन्तरमेव भवति नेन्यच्यते किन्तर्हि तत्त्वज्ञानात् || १ ॥
दुःखजन्मप्रत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः ॥२॥
For Private And Personal