Book Title: Neminathadi Stotra Traya Author(s): Vinaysagar Publisher: ZZ_Anusandhan View full book textPage 5
________________ फेबुआरी-2005 दीक्षामहस्यतनुसान्द्रदरिद्रताद्रु विद्रावणं वितरता द्रवित वितन्द्रम् । येन द्रुतं तनुभृतः सुखिनोऽक्रियन्त, सातायर्वजगतौ(साताय सर्वजगतां ?) महतां हि भूमिः ॥६॥ स्फूर्जत्कलानिलयसंकलितोत्तमाङ्गो, विश्वम्भराभृदतिशायिकृतानुरागः । रोचिष्णुगूरुचितशक्तिधरः स्मरारि र्यो भारतं परमसिद्धिलवं चकार ||७|| आश्चर्यमेकमपि यस्य वचो विचित्रां, लोकस्य संशयतति युगपन्निरास्थत् । भव्यात्मनां भुवि सदा फलितस्य पुण्य कल्पद्रुमस्य क इवाविषयोप्यवार्यः ॥८॥ यत्कौशिकस्य परमप्रमदं तनोति, __ शश्वन्महोभिरधिकं विधुमादधाति । विस्फारयत्यनुदितं कुमुदं च यस्य, तत्केवलं कथमिवार्कसमं समस्तु ॥९॥ अद्यापि यत्प्रतिकृती रुचितां पिपत्ति, __पुंसां स्थिता गुरुणि रैवतकाद्रिश्रृङ्गे । स श्रीसमुद्रविजयक्षितिपाङ्गजः श्री नेमिः श्रियं जिनपतिस्तनुतान्तरां वः ॥१०॥ [गणधरसार्धशतकबृहद्वृत्ति सुमतिगणि कृत. द्वितीय पद्यव्याख्या, दानसागर ज्ञान भण्डार, बीकानेर ग्रन्थाङ्क १०६१, ले. १६७४, पत्र ४० बी] Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 3 4 5 6 7 8