Book Title: Nandisutram
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 8
________________ श्रीमलयगिरीया नन्दीवृत्तिः ॥ २ ॥ "देवे तूरसमूदओ” तानि च द्वादश तूर्याण्यमूनि - "भंभा मुकुंद महले कडवें झलेरि हुक कंसाला । काहल तलिंमा वंसो संखो पणवो य वारसमो ॥ १ ॥” भावनन्दिर्द्विधा - आगमतो नोआगमतश्च तत्रागमतो नन्दिपदार्थस्य ज्ञाता तत्र चोपयुक्तः, 'उपयोगो भावनिक्षेप' इति वचनात्, नोआगमतः पञ्चप्रकारज्ञानसमुदयः, 'भावम्मि य पञ्चनाणाई' इति वचनात्, अथवा पञ्चप्रकारज्ञानखरूपमात्रप्रतिपादकोऽध्ययनविशेषो भावनन्दिः, नोशब्दस्यैकदेशवचनत्वात्, अस्य चाध्ययनस्य सर्वश्रुतैकदेशत्वात्, तथाहि -अयमध्ययनविशेषः सर्वश्रुताभ्यन्तरभूतो वर्त्तते, तत एकदेशः, अत एव चायं सर्व्वश्रुतस्कन्धारम्भेषु सकलप्रत्यूहनिवृत्तये मङ्गलार्थमादौ तत्त्ववेदिभिरभिधीयते, अस्य च मङ्गलस्थानप्राप्तस्य व्याख्याप्रक्रमे पूर्वसूरयो विनेयानां सूत्रार्थगौरवोत्पादनार्थमविच्छेदेन तीर्थकराद्यावलिका आचक्षते, तत आचार्योऽपिं देववाचकनामा ज्ञानपञ्चकं व्याचिख्यासुः प्रथमत आवलिका अभिधित्सुरविनेन अध्यापकश्रावकपाठक चिन्तकानामभिलषितार्थसिद्धये 'अनादिमन्तस्तीर्थकरा' इतिज्ञापनार्थं सामान्यतो भगवन्तीर्थकृत्स्तुतिमभिधातुमाह जयइ जगजीवजोणीवियाणओ जगगुरू जगाणंदो | जगणाहो जगबंधू जय जगप्पियामहो भयवं ॥ १ ॥ इह स्तुतिर्द्विधा - प्रणामरूपा असाधारण गुणोत्कीर्त्तनरूपा च तत्र प्रणामरूपा सामर्थ्यगम्या, यथा च सामर्थ्य १ द्रव्ये तूर्यसमुदयः । Jain Education International For Personal & Private Use Only नन्दीनिक्षेपाः ॥२॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 514