________________
श्रीमलयगिरीया नन्दीवृत्तिः
॥ २ ॥
"देवे तूरसमूदओ” तानि च द्वादश तूर्याण्यमूनि - "भंभा मुकुंद महले कडवें झलेरि हुक कंसाला । काहल तलिंमा वंसो संखो पणवो य वारसमो ॥ १ ॥” भावनन्दिर्द्विधा - आगमतो नोआगमतश्च तत्रागमतो नन्दिपदार्थस्य ज्ञाता तत्र चोपयुक्तः, 'उपयोगो भावनिक्षेप' इति वचनात्, नोआगमतः पञ्चप्रकारज्ञानसमुदयः, 'भावम्मि य पञ्चनाणाई' इति वचनात्, अथवा पञ्चप्रकारज्ञानखरूपमात्रप्रतिपादकोऽध्ययनविशेषो भावनन्दिः, नोशब्दस्यैकदेशवचनत्वात्, अस्य चाध्ययनस्य सर्वश्रुतैकदेशत्वात्, तथाहि -अयमध्ययनविशेषः सर्वश्रुताभ्यन्तरभूतो वर्त्तते, तत एकदेशः, अत एव चायं सर्व्वश्रुतस्कन्धारम्भेषु सकलप्रत्यूहनिवृत्तये मङ्गलार्थमादौ तत्त्ववेदिभिरभिधीयते, अस्य च मङ्गलस्थानप्राप्तस्य व्याख्याप्रक्रमे पूर्वसूरयो विनेयानां सूत्रार्थगौरवोत्पादनार्थमविच्छेदेन तीर्थकराद्यावलिका आचक्षते, तत आचार्योऽपिं देववाचकनामा ज्ञानपञ्चकं व्याचिख्यासुः प्रथमत आवलिका अभिधित्सुरविनेन अध्यापकश्रावकपाठक चिन्तकानामभिलषितार्थसिद्धये 'अनादिमन्तस्तीर्थकरा' इतिज्ञापनार्थं सामान्यतो भगवन्तीर्थकृत्स्तुतिमभिधातुमाह
जयइ जगजीवजोणीवियाणओ जगगुरू जगाणंदो | जगणाहो जगबंधू जय जगप्पियामहो भयवं ॥ १ ॥ इह स्तुतिर्द्विधा - प्रणामरूपा असाधारण गुणोत्कीर्त्तनरूपा च तत्र प्रणामरूपा सामर्थ्यगम्या, यथा च सामर्थ्य
१ द्रव्ये तूर्यसमुदयः ।
Jain Education International
For Personal & Private Use Only
नन्दीनिक्षेपाः
॥२॥
www.jainelibrary.org