SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ सर्वधातुभ्यः' इत्यौणादिक इप्रत्ययः, अपरे तु नन्दीति पठन्ति, ते च 'इक् कृष्यादिभ्य' इति सूत्रादिक्प्रत्ययं समानीय स्त्रीत्वेऽपि वर्तयन्ति, ततश्च 'इतोऽत्यर्थादि' ति ङीप्रत्ययः, स च नन्दिश्चतुर्की, तद्यथा-नामनन्दिः स्थापनानन्दिः द्रव्यनन्दिः भावनन्दिश्च, तत्र नामनन्दिर्यस्य कस्यचिजीवस्याजीव(स्योभयस्य)स्य वा नन्दिशब्दार्थरहितस्य नन्दिरिति, नाम क्रियते स नाम्ना नन्दि मनन्दिः, यद्वा नामनामवतोरभेदोपचारान्नाम चासौ नन्दिश्च नामनन्दिः, नन्दिरिति है। नामवान्नामनन्दिः, तथा सद्भावमाश्रित्य लेप्यकादिष्वसद्भावं चाश्रित्याक्षवराटकादिषु भावनन्दिमतः साध्वादेर्या | स्थापना स स्थापनानन्दिः,अथवा द्वादशविधतूर्यरूपद्रव्यनन्दिस्थापना स्थापनानन्दिः,द्रव्यनन्दिर्द्विधा-आगमतो नोआ-18 गमतश्च, तत्रागमतो नन्दिपदार्थस्य ज्ञाता तत्र चानुपयुक्तः, 'अनुपयोगो द्रव्य'मिति वचनात्, नोआगमतस्तु विधा, तद्यथा-ज्ञशरीरद्रव्यनन्दिर्भव्यशरीरद्रव्यनन्दिशिरीरभव्यशरीरव्यतिरिक्तद्रव्यनन्दिश्च,तत्र यन्नन्दिपदार्थज्ञस्य व्यपगतजी-2 वितस्य शरीरं सिद्धशिलातलादिगतं तद् भूतभावतया ज्ञशरीरद्रव्यनन्दिः, यस्तु वालको नेदानी नन्दिशब्दार्थ-12 मवबुध्यते अथ चावश्यमायत्यां तेनैव शरीरसमुच्छ्रयेण भोत्स्यते स भाविभावनिबन्धनत्वाद्भव्यशरीरद्रव्यनन्दिः, इह हि यद् भूतभावं भाविभावं वा (योग्य) वस्तु तद्यथाक्रमं विवक्षितभूतभाधिभावापेक्षया द्रव्यमिति तत्त्ववेदिनां प्रसिद्धिमुपागमत्, उक्तं च-"भूतस्य भाविनो वा भावस्य हि कारणं तु यलोके । तद्रव्यं तत्त्वज्ञैः सचेतनाहै चेतनं कथितम् ॥ १॥" ज्ञशरीरभव्यशरीरव्यतिरिक्तस्तु द्रव्यनन्दिः क्रियाऽऽविष्टो द्वादशविधतूर्यसमुदायः, उक्तं च Jain Education international For Personal & Private Use Only w ainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy