SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ गम्या तथाऽनन्तरमेव वक्ष्यते, असाधारणगुणोत्कीर्तनरूपा च द्विधा-खार्थसम्पदभिधायिनी परार्थसम्पदभिधा-18 यिनी च, तत्र खार्थसम्पन्नः परार्थ प्रति समर्थो भवतीति प्रथमतः खार्थसम्पदमाह-'जयति' इन्द्रियविषयकषाय-12 घातिकर्मपरिषहोपसर्गादिशत्रुगणपरिजयात् सर्वानप्यतिशेते, इत्थं सर्वातिशायी च भगवान् प्रेक्षावतामवश्यं प्रणामाहः ततो जयतीति, किमुक्तं भवति ?-तं प्रति प्रणतोऽस्मीति, किंविशिष्टो जयतीत्याह-'जगजीवयोनिविज्ञायकः' जगद्-धमाधाकाशपुद्गलास्तिकायरूपं 'जगद् ज्ञेयं चराचर'मिति वचनात् 'जीवा' इति जीवन्ति-प्राणान् । धारयन्तीति जीवाः, कः प्राणान् धारयतीति ? चेत्, उच्यते, यो मिथ्यात्वादिकलुषिततया वेदनीयादिकर्मणामभि-14 निर्वर्तकस्तत्फलस्य च सुखदुःखादेरुपभोक्ता नारकादिभवेषु च यथाकर्मविपाकोदयं संसती सम्यग्दर्शनादिरत्नत्रयाहै भ्यासप्रकर्षवशाचाशेषकर्मांशापगमतः परिनिर्वाता स प्राणान् धारयति स एव चात्मेत्यभिधीयते, उक्तं च-"यः का कर्मभेदानां, भोक्ता कर्मफलस्य च । संस" परिनिर्वाता, स ह्यात्मा नान्यलक्षणः ॥ १ ॥” कथमेतत्सि-2 द्धिरिति चेत् ?, उच्यते, प्रतिप्राणि खसंवेदनप्रमाणसिद्धचैतन्यान्यथाऽनुपपत्तितः, तथाहि-न चैतन्यमिदं भूतानां धर्मः, तद्धर्मत्वे सति पृथिव्याः काठिन्यस्येव सर्वत्र सर्वदा चोपलम्भप्रसङ्गात्, न च सर्वत्र सर्वदा चोपलभ्यते, लोष्ठादौ मृतावस्थायां चानुपलम्भात्, अथात्रापि चैतन्यमस्ति केवलं शक्तिरूपेण ततो नोपलभ्यते, तदयुक्तं, विकल्पद्वयानतिक्रमातू, तथाहि-सा शक्तिश्चैतन्याद्विलक्षणा उत चैतन्यमेव ?, यदि विलक्षणा तर्हि कथमारट्यते 60 dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy