SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ श्रीमलयगिरीया जीवसत्तासिद्धिः | चावाकखंडनश्च शक्तिरूपेण चैतन्यमस्ति?, न हि घटे विद्यमाने पटरूपेण घटस्तिष्ठतीति वक्तुं शक्यम्, आह च प्रज्ञाकरगुप्तोऽपि-"रू पान्तरेण यदि तत्तदेवास्तीति मा रटीः। चैतन्यादन्यरूपस्य, भावे तद्विद्यते कथम् ॥ १॥" अथ द्वितीयः पक्षस्तर्हि नन्दीवृत्तिः चैतन्यमेव सा कथमनुपलम्भः ?, आवृतत्त्वादनुपलम्भ इति चेत्, नन्वावृतिरावरणं, तचावरणं किं विवक्षितपरिणाहमाभावः उत परिणामान्तरमाहोखिदन्यदेव भूतातिरिक्तं किञ्चित ?, तत्र न तावद्विवक्षितपरिणामाभावः एकान्ततुच्छतया तस्यावारकत्वायोगात्, अन्यथा तस्याप्यतुच्छरूपतया भावरूपताऽऽपत्तिः, भावत्वे च पृथिव्यादीनामन्यतमो भावो भवेत्, 'पृथिव्यादीन्येव भूतानि तत्त्वमिति वचनात्, पृथिव्यादीनि च भूतानि चैतन्यस्य व्यअकानि नावारकाणीति कथमावारकत्वं तस्योपपत्तिमत् ?, अथ परिणामान्तरम्, तदप्ययुक्तं, परिणामान्तरस्यापि भूतखभावतया भूतवद्यञ्जकत्वस्यैवोपपत्तेनोवारकत्वस्य, अथान्यदेव भूतातिरिक्तं किञ्चित्, तदतीवासमीचीनं, भूतातिरिक्ताभ्युपगमे चत्वार्येव पृथिव्यादीनि भूतानि तत्त्वमिति तत्त्वसङ्ख्याव्याघातप्रसङ्गात्, अपि चेदं चैतन्य प्रत्येकं वा भूतानां धर्मः समुदायस्य वा?, न तावत्प्रत्येकमनुपलम्भात्, न हि प्रतिपरमाणु संवेदन यदि च प्रतिपरमाणु भवेत्तर्हि पुरुषसहस्रचैतन्यवृन्दमिव परस्परं विभिन्नस्वभावमिति नैकरूपं भवेत्, अथ चैकरूपमुपलभ्यते, अहं पश्यामि अहं करोमीत्येवं सकलशरीराधिष्ठातृकैकरूपतयाऽनुभवात्, अथ समुदायस्य धर्मः, तदप्यसत्, प्रत्येकमभावात, प्रत्येकं हि यदसत्तत्समुदायेऽपि न भवति, यथा रेणुषु तैलं, स्यादतेत्-मद्यानेषु प्रत्येक SUSASSASSURSUS dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy