SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ मदशक्तिरदृष्टाऽपि समुदाये भवतीति दृश्यते तद्वचैतन्यमपि भविष्यति को दोषः ?, तदयुक्तं, प्रत्येकमपि मद्याङ्गेषु || प्रत्येकं मदशक्त्यनुयायिमाधुर्यादिगुणदर्शनात् , तथाहि-दृश्यते माधुर्यमिक्षुरसे धातकीपुष्पेषु च मनाक् विकलतोत्पादकतेत्यादि, न चैवं चैतन्यं सामान्यतो भूतेषु प्रत्येकमुपलभ्यते, ततः कथं समुदाये तद् भवितुमर्हति ?, मा 8 प्रापत् सर्वस्य सर्वत्र भावप्रसक्त्याऽतिप्रसङ्गः । किञ्च-यदि चैतन्यं धर्मत्वेन प्रतिपन्नं ततोऽवश्यमस्यानुरूपो धर्मी प्रतिपत्तव्यः, आनुरूप्पाभावे जलकाठिन्ययोरिव धर्मिधर्मभावानुपपत्तेः, न च भूतान्यनुरूपो धर्मी, वैलक्षण्यात्, तथाहि-चैतन्यं वोधखरूपममूर्त च, भूतानि च तद्विलक्षणानि, तत्कथमेतेषां परस्परं धर्मधम्मिभावः ? । नापि चैतन्यमिद्रं भूतानां कार्यम्, अत्यन्तवैलक्षण्यादेव कार्यकारणभावस्थाप्ययोगात्, उक्तं च-"काठिन्याबोधरूपाणि, भू-14 तान्यध्यक्षसिद्धितः । चेतना च न तद्रूपा, सा कथं तत्फलं भवेत् ? ॥ १॥" अपिच-यदि भूतकार्य चेतना तर्हि किं न सकलमपि जगत्प्राणिमयं भवति ?, परिणतिविशेषसद्भावाभावादिति चेत् ननु सोऽपि परिणतिविशेषसद्भावः सर्वत्रापि कस्मान्न भवति ?, सोपि हि भूतमात्रनिमित्तक एव ततः कथं तस्यापि क्वचित्कदाचिद्भावः ?, अन्यच्चस किंरूपः परिणतिविशेष इति वाच्यम्, कठिनत्वादिरूप इति चेत्, तथाहि-काष्ठादिषु दृश्यन्ते घुणादिजन्तवो जायमानास्ततो यत्र कठिनत्वादिविशेषस्तत्प्राणिमयं न शेष इति, तदप्यसत्, व्यभिचारदर्शनात् , तथाहि-अविशिटेऽपि कठिनत्वादिविशेषे क्वचिद्भवन्ति क्वचिन्न क्वचिच कठिनत्वादिविशेषमन्तरेणापि संखेदजा नभसि च संमूञ्छिमा Jain Education International For Personal & Private Use Only K-mainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy