SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ श्रीमलय गिरीया नन्दीवृत्तिः ॥ ४ ॥ जायन्ते, किञ्च - समानयोनिका अपि विचित्रवर्णसंस्थाना दृश्यन्ते प्राणिनः तथाहि - गोमयाद्येकयोनिसम्भविनोऽपि केचिन्नीलतनवोऽपरे पीतकाया अन्ये विचित्रवर्णाः, संस्थानमप्येतेषां परस्परं विभिन्नमेव, तद्यदि भूतमात्रनिमित्तं चैतन्यं तत एकयोनिकाः सर्वेऽप्येकवर्णसंस्थाना भवेयुः, न च भवन्ति, तस्मादात्मान एव तत्तत्क - वशात्तथोत्पद्यन्ते इति प्रतिपत्तव्यं । स्थादेतत्- तदाऽऽगच्छन् गच्छन् वा नात्मोपलभ्यते, केवलं देहे सति संवेदनमुपलभ्यते, देहाभावे च भस्मावस्थायां न, तस्मान्नास्त्यात्मा, किन्तु संवेदनमात्रमेवैकमस्ति तच्च देहकार्य, देहे एव च समाश्रितं, कुड्ये चित्रवत्, न चित्रं कुड्यविरहितमवतिष्ठति, नापि कुड्यान्तरं सङ्क्रामति, नागतं वा कुड्यान्तरात्, किन्तु कुड्ये एव उत्पन्नं कुड्ये एव च विलीयते, एवं संवेदनमपि तदप्यसत, आत्मा हि खरूपेणामूर्त्तः, आन्तरमपि | शरीरमतिसूक्ष्मत्वान्न चक्षुर्विषयः, तदुक्तम् - "अन्तरा भवदेहोऽपि, सूक्ष्मत्वान्नोपलभ्यते । निष्क्रामन् प्रविशन्नात्मा, नाभावोऽनीक्षणादपि ॥ १ ॥" तत आन्तरशरीरयुक्तोऽप्यात्मा आगच्छन् गच्छन् वा नोपलभ्यते, लिङ्गतस्तू पलभ्यते एव, तथाहि - कुमेरपि जन्तोस्तत्कालोत्पन्नस्याप्यस्ति निजशरीरविषयः प्रतिबन्धः, उपघातकमुपलभ्य पलायनदर्शनात यश्च यविषयः प्रतिबन्धः स तद्विषयपरिशीलनाभ्यासपूर्वकः, तथादर्शनात्, न खल्वत्यन्तापरिज्ञातगुणदोषवस्तुविषये कस्याप्याग्रह उपजायते, ततो जन्मादौ शरीराग्रहः शरीरपरिशीलनाभ्यासजनित संस्कारनिबन्धन इति सिद्धमात्मनो जन्मान्तरादागमनम् उक्तं च - " शरीराग्रहरूपस्य, चेतसः सम्भवो यदा । जन्मादौ Jain Education International For Personal & Private Use Only जीवसत्तासिद्धिः चार्वाक खंडन . 118 11 www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy