________________
PAISAS SSSSSSSSSS
दहिनां दृष्टः, किं न जन्मान्तरागतिः ? ॥१॥" अथागतिः प्रत्यक्षतो नोपलभ्यते ततः कथमनुमानादवसीयते ?, नैष दोषः, अनुमेयविषये प्रत्यक्षवृत्तेरनभ्युपगमात्, परस्परविषयपरिहारेण हि प्रत्यक्षानुमानयोः प्रवर्तनमिष्यते ततः कथं स एव दोषः ?, आह च-"अनुमेयेऽस्ति नाध्यक्षमिति कैवात्र दुष्टता ? । अध्यक्षस्यानुमानस्य, विषयो विषयो न हि ॥१॥" अथ तज्जातीयेऽपि प्रत्यक्षवृत्तिमन्तरेण कथमनुमानमुदयितुमुत्सहते ?, न खलु यस्याग्निविषया प्रत्यक्षवृत्तिर्महानसेऽपि नासीत् तस्यान्यत्र क्षितिधरादौ धूमामध्वजानुमानं, तदप्ययुक्तम्, अत्रापि तजातीये प्रत्यक्षवृत्तिभावात्, तथाहि-आग्रहोऽन्यत्र परिशीलनाभ्यासात् प्रवृत्तः प्रत्यक्षत एवोपलब्धः, तदुपष्टम्भेनेहाप्यनुमानं प्रवर्तते, उक्तं च-"आग्रहस्तावदभ्यासातू, प्रवृत्त उपलभ्यते । अन्यत्राध्यक्षतः साक्षात्ततो देहेऽनुमा न किम् ? ॥१॥" योऽपि चित्रदृष्टान्तः प्रागुपन्यस्तः सोऽप्ययुक्तो, वैषम्यात् , तथाहि-चित्रमचेतनं गमनखभावरहितं च, आत्मा च चेतनः | कर्मवशाद् गयागती च कुरुते, ततः कथं दृष्टान्तदाान्तिकयोः साम्यम् ?, ततो यथा कश्चिदू देवदत्तो विवक्षिते/
ग्रामे कतिपयदिनानि गृहीभूत्वा ग्रामान्तरे गृहान्तरमास्थायावतिष्ठते तद्वद् आत्माऽपि विवक्षिते भवे देहं परिहाय | भवान्तरे देहान्तरमारचय्यावतिष्ठते, यच्चोक्तं-'संवेदनं देहकायेंमिति, तत्र चाक्षुषादिकं संवेदनं देहाश्रितमपि कथञ्चिद् भवतु, चक्षुरादीन्द्रियद्वारेण तस्योत्पत्तिसम्भवात्, यत्तु मानसं तत्कथम् ? न हि तदेहकार्य घटते, युक्त्ययो|गात, तथाहि-तन्मानसं ज्ञानं देहादुत्पद्यमानमिन्द्रियरूपाद्वा समुत्पद्यते अनिन्द्रियरूपाद्वा केशनखादिलक्षणात् ?,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org