SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ श्रीमलय- तत्र न तावदाद्यः पक्षः, इन्द्रियरूपात् तदुत्पत्ताविन्द्रियबुद्धिवद् वर्तमानार्थग्रहणप्रसक्तेः, इन्द्रियं हि वार्त्तमानिक जीवसत्तागिरीया त एवार्थे व्याप्रियते ततस्तत्सामर्थ्यादुपजायमानं मानसमपि ज्ञानमिन्द्रियज्ञानमिव वर्तमानार्थग्रहणपर्यवसितसत्ताक-18 सिद्धिः नन्दीवृत्तिः चार्वाकमेव भवेत् , अथ यदा चक्षु रूपविषये व्याप्रियते तदा रूपविज्ञानमुत्पादयति न शेषकालं, ततः तद्रूपविज्ञानं खंडनश्च. वर्तमानार्थविषयं, वर्तमाने एवार्थे चक्षुषो व्यापारात, रूपविषयव्यावृत्त्यभावे च मनोज्ञानं, ततो न तत्प्रतिनियत-12 कालविषयं, एवं शेषेष्वपीन्द्रियेषु वाच्यं, ततः कथमिव मनोज्ञानस्य वर्तमानार्थग्रहणप्रसक्तिः ?, तदसाधीयो, यत इन्द्रियाश्रितं तदुच्यते यदिन्द्रियव्यापारमनुसृत्योपजायते, इन्द्रियाणां च व्यापारः प्रतिनियत एव वार्त्तमानिके खखविषये, ततो मनोज्ञानमपि यदिन्द्रियव्यापाराश्रितं तत ऐन्द्रियज्ञानमिव वार्त्तमानिकार्थग्राहकमेव भवेद्, अन्यथा इन्द्रियाश्रितमेव तद् न स्यात्, उक्तं च-"अक्षव्यापारमाश्रित्य, भवदक्षजमिष्यते । तद्वयापारो न तत्रेति, कथमक्षहै! भवं भवेत् ? ॥१॥" अथानिन्द्रियरूपादिति पक्षः, तदप्ययुक्तं, तस्याचेतनत्वात् , नन्वचेतनत्वादिति कोऽर्थः ?, यदि 8 इन्द्रियविज्ञानविरहादिति तदिष्यत एव, यदि नामेन्द्रियविज्ञानं ततो न भवति मनोज्ञानं तु कस्मात् न भवति ?,181 अथ मनोविज्ञानं नोत्पादयतीति अचेतनत्वं, तदा तदेव विचार्यमाणं इति प्रतिज्ञार्थंकदेशासिद्धो हेतुः, तदप्यसत्, अचेतनत्वादिति किमुक्तं भवति ?-खनिमित्तविज्ञानैः स्फुरचिद्रूपतयाऽनुपलब्धेः, स्पर्शादयो हि खखनिमित्तविज्ञानैः स्फुरचिद्रूपा उपलभ्यन्ते ततस्तेभ्यो ज्ञानमुत्पद्यते इति युक्तम्, केशनखादयस्तु न मनोज्ञानेन तथा स्फुरचि dain Education Tnternational For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy