________________
द्रूपा उपलभ्यन्ते ततः कथं तेभ्यो मनोज्ञानं भवतीति प्रतीमः ?, आह च-"चेतयन्तो न दृश्यन्ते, केशश्मश्रुनखादयः। ततस्तेभ्यो मनोज्ञानं, भवतीत्यतिसाहसम् ॥१॥" अपि च-यदि केशनखादिप्रतिबद्धं मनोज्ञानं ततः तदुच्छेदे मूलत एव न स्यात्, तदुपघाते चोपहतं भवेत्, न च भवति, तस्मात् नायमपि पक्षः क्षोदक्षमः, किञ्च-मनोज्ञानस्य सूक्ष्मार्थभे(वे)त्तृत्वस्मृतिपाटवादयो विशेषा अन्वयव्यतिरेकाभ्यामभ्यासपूर्वका दृष्टाः, तथाहि-तदेव शास्त्रमूहापोहादि-* प्रकारेण यदि पुनः पुनः परिभाव्यते ततः सूक्ष्मसूक्ष्मतरार्थावबोध उल्लसति स्मृतिपाटवं चापूर्वमुज्जृम्भते, एवं
चैकत्र शास्त्रेऽभ्यासतः सूक्ष्मार्थभे(वे)त्तृत्वशक्तौ स्मृतिपाटवशक्तौ चोपजातायामन्येष्वपि शास्त्रान्तरेष्वनायासेनैव सूक्ष्मादार्थावबोधः स्मृतिपाटवं चोलसति, तदेवमभ्यासहेतुकाः सूक्ष्मार्थभे(वे)त्तृत्वादयो मनोज्ञानस्य विशेषा दृष्टाः, अथ कस्य-3 चिदिहजन्माभ्यासव्यतिरेकेणापि दृश्यन्ते ततोऽवश्यं ते पारलौकिकाभ्यासहेतुका इति प्रतिपत्तव्यम्, कारणेन सह कार्यस्यान्यथाऽनुपपन्नत्वप्रतिवन्धतोऽदृष्टतत्कारणस्यापि तत्कार्यत्वविनिश्चितेः, ततः सिद्धः परलोकयायी जीवः, सिद्धे च तस्मिन् परलोकयायिनि यदि कथश्चिदुपकारी चाक्षुषादेर्विज्ञानस्य देहो भवेत् भवतु न कश्चिद् दोषः, क्षयोपशमहेतुतया देहस्यापि कथञ्चिदुपकारित्वाभ्युपगमात्, न चैतावता तन्निवृत्तौ सर्वथा तन्निवृत्तिः, न हि वढेरासा-12 दितविशेषो घटो वह्निनिवृत्तौ समृलोच्छेदं निवर्त्तते, केवलं विशेष एव कश्चनापि, यथा सुवर्णस्य द्रवत्ता, एवमिहापि देहनिवृत्ती ज्ञानविशेष एच कोऽपि तत्प्रतिबद्धो निवर्त्तता, न पुनः समूलं ज्ञानमपि, यदि पुनर्देहमात्रनिमित्तकमेव
SAESAXERCISESSONG
Jain Education
a
l
For Personal & Private Use Only
Warjainelibrary.org