________________
श्रीमलय-1 विज्ञानमिष्येत देहनिवृत्तौ च निवृत्तिमत् तर्हि देहस्य भस्मावस्थायां मा भूत् देहे तु तथाभूते एवावतिष्ठमाने | जीवसत्तागिरीया
मृतावस्थायां कस्मात् न भवति ?, प्राणापानयोरपि हेतुत्वात् तदभावान्न भवतीति चेत्, न, प्राणापानयोर्ज्ञानहेतु- सिद्धिः नन्दीवृत्तिः त्वायोगात, ज्ञानादेव तयोरपि प्रवृत्तेः,तथाहि-यदि मन्दौ प्राणापानौ निःस्रष्टुमिष्यते ततो मन्दी भवतः दी| चेत्तहि || चावोंक
खंडनच. ६/दीर्घाविति, यदि पुनर्देहमात्रनिमित्तौ प्राणापानौ प्राणापाननिमित्तं च विज्ञानं तर्हि नेत्थमिच्छावशात् प्राणापानप्रवर्त्तनं त भवेत्, न हि देहमात्रनिमित्ता गौरता श्यामता वा इच्छावशात् प्रवर्त्तमाना दृष्टा, प्राणापाननिमित्तं च यदि विज्ञानं
ततः प्राणापाननिहासातिशयसम्भवे विज्ञानस्यापि निहासातिशयो स्याताम्, अवश्यं हि कारणे परिहीयमानेऽभिवर्द्धमाने च कार्यस्यापि हानिरुपचयश्च भवति, यथा महति मृत्पिण्डे महान् घटोऽल्पे चाल्पीयान्, अन्यथा कारणमेव तद् न स्याद, न च भवतः प्राणापाननिहाँसातिशयसम्भवे विज्ञानस्यापि निहासातिशयौ, विपर्ययस्यापि भावात्, मरणावस्थायां प्राणापानातिशयसम्भवेऽपि विज्ञानस्य निहासदर्शनातू, स्यादेतत्-तदानीं वातपित्तादिभिदोषैर्देहस्य विगुणीकृतत्वात न प्राणापानातिशयसम्भवेऽपि चैतन्यस्यातिशयसम्भवः, अत एव मृतावस्थायामपि न चैतन्यं, देहस्य विगुणीभूतत्वात्, तदसमीचीनतरम्, एवं सति मृतस्यापि पुनरुज्जीवनप्रसक्तेः, तथाहि-मृतस्य दोषाः समीभवन्ति, समीभवनं च दोषाणामवसीयते ज्वरादिविकारादर्शनात्, समत्वं चारोग्यं, 'तेषां समत्वमारोग्यं, क्षयवृद्धी विपर्यये' इति वचनात् , आरोग्यलाभात् खदेहस्य पुनरुज्जीवनं भवेत् , अन्यथा देहः कारणमेव न स्यात्, चेतसः |
SSSSSSSSS
dain Education International
For Personal & Private Use Only
www.jainelibrary.org