Book Title: Nandisutra ke Vruttikar tatha Tippankar
Author(s): Punyavijay
Publisher: Punyavijayji

View full book text
Previous | Next

Page 12
________________ નન્દીસૂત્રકે વૃત્તિકાર તથા ટિપ્પનકાર [८५ अन्तिम प्रशस्तिशिष्याम्भोजदिवाकरस्य पुरतः श्रीधर्मघोषप्रभोः, सिद्धान्तं विमलाख्यसरिगणभृच्छिष्येण संशृण्वता । स्मृत्यर्थं गणिचन्द्रकीर्तिकृतिना केचिद् विचारा वराः, सन्त्येते परिपिण्डिताः परिलससिद्धान्तरत्नाकरात् ।। (३) प्रतिष्ठाविधि पत्र २१-२२ (४) प्रायश्चित्तविचार पत्र २३ वा (५) निःशेषसिद्धान्तपर्याय पत्र २४-१११ दृढगालिधोयपोत्ती सदसवत्थं ति भणियं होइ ५ । रालग कंगू ॥छ। संवत् १२१२ आषाढ वदि १२ गुरौ लिखितेयं सिद्धान्तोद्धारपुस्तिका लेखकदेवप्रसादेनेति ॥छ।। प्रन्थानम् १६७० ॥ द्वितीयखण्डम् ॥छ। शिष्याम्भोजवनप्रबोधनरवेः श्रीधर्मघोषप्रभोः वक्त्राम्भोजविनिर्गताः कतिपयाः सिद्धान्तसत्का अमी। पर्याया गणिचन्द्रकीतिकृतिना सश्चिन्त्य सम्पिण्डिताः स्वस्य श्रीविमलाख्यसूरिंगणभृच्छिष्येण चिन्ताकृते॥छ आस्ते श्रीमदखर्वपर्वततिभिः सर्वोदयः मातले छायाछन्नदिगन्तरः परिलसत्पत्रावलीसङ्कलः । सेवाकारिनृणां नवीनफलदोऽप्यश्रान्तसान्द्रद्युतिः निश्छिद्रः सरलत्वकौतुककरः प्राग्वाटवंशः सताम् ।। मौक्तिकहारसङ्काशः समासीत् तत्र वीहिलः । श्रावको गुणसंयोगान्नराणां हृदये स्थितः ।। समजनि धनदेवः श्रावकस्तस्य सूनुः, प्रथितगुणसमुद्रो मझुवाणीविलासः । गगनवलयरङ्गत्कीर्तिचन्द्रोदयेऽस्मिन् , लगति न च कलङ्काः खञ्जनं यस्य सत्काः ॥ तस्य च भार्या यशोमति, तयोश्च पुत्रो गुणरत्नैकरोहणाचलो धर्मचन्दनद्रुममलयः कीर्तिसुधाधवलितसमस्तविश्ववलयो यशोदेवश्रेष्ठी। तस्य च आंबीति नाम्ना जनवत्सलाऽभूद्, भार्या यशोदेवगृहाधिपस्य । यस्याः सतीनां गुणवर्णनायामाद्यैव रेखा क्रियते मुनीन्द्रः ॥ तयोश्च पुत्रा उद्धरण-आम्बिग-वीरदेवाख्या बभूवुः सोली-लोली-सोखीनामानश्च पुत्रिकाः सञ्जज्ञिरे । अन्यदा च सिद्धान्तलेखनबद्धादरेण जिनशासनानुरञ्जितचित्तेन यशोदेवश्रावकेण सिद्धान्तविचार-पर्यायपुस्तिका लेखयामास । पूज्य श्री विमलाख्यसरिगणभृच्छिष्यस्य चारित्रिणो योग्याऽसौ गणिचन्द्रकीनिविदुषो विद्वज्जनानन्दिनी । शास्त्रार्थस्मृतिहेतवे परिलसज्ज्ञानप्रपा पुस्तिका भक्तिप्राञ्चितयत्युपासकयशोदेवेन निर्मापिता ॥ यावच्चन्द्र-रवी नभस्तलजुषौ यावच्च देवाचलो यावत् सप्तसमुद्रमुद्रितमही यावन्नभोमण्डलम् । यावत् स्वर्गविमानसन्ततिरियं यावच्च दिग्दन्तिनस्तावत् पुस्तकमेतदस्तु सुधियां व्याख्यायमान मुदे ॥ ॥ इति प्रशस्तिः समाप्ता ॥ छ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14