Book Title: Mangalvada Sangraha
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 70
________________ मङ्गलवादः, उपाध्याय श्रीसमयसुंदरजीगणी ततोऽविघटं लक्षणमिदम् । ३१ - पुनरप्याह कश्चित् ननु मङ्गले मङ्गलत्वं जातिर्वा उपाधिर्वा । न तावज्जातिः घटपटसंयोगन सह जातिसाङ्कर्याद्, उल्लेखस्तु पूर्ववत् । नाप्युपाधिः । उपाधिश्चेत् तर्हि सखण्डोपाधिर्वा अखण्डोपाधिर्वा । नाद्यः क्षमो यतः सखण्डोपाधिस्त्वनेकपदार्थघटितो भवेत्, मङ्गलत्वं त्वत्र केवलं मङ्गल एव विद्यते, अतोऽनेकपदार्थघटितत्वाभावान्न सखण्डोपाधिः । नाप्यखण्डोपाधिः, अखण्डोपाधेर्जातितुल्यत्वेन पूर्वं निराकृतत्वात् । तस्मान्मङ्गलत्वं किं तद्वाच्यं विपश्चिता । अत्रोच्यते । प्रतिबन्धकान्यस्य सतः प्रारिप्सितप्रतिबन्धकनिवृत्त्य साधारणत्वं मङ्गलत्वमिति लक्षणसद्भावात् मङ्गलत्वं सखण्डोपाधिरेवेत्यलं विस्तरेण ॥ ।। इति श्री १०८ समयसुंदरमहोपाध्यायैः कृता मङ्गलवाद-सुखावबोधप्रश्नोत्तरपद्धतिः समाप्ता ॥ श्रीः । १६९० वर्षे चैत्रस्य द्वितीयाष्टम्यां श्रीराजहंगे श्रीबृहत्खरतरगच्छे भट्टारक श्री जिनसागरसूरिविजयिराज्ये श्रीपुण्यप्रधानोपाध्यायानां शिष्यमुख्यवाचकसुमतिसागरगणिनां विनेयविनयसागरगणिना लिखितः स्वाध्ययनाय ॥

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91