Book Title: Mangalvada Sangraha
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
तत्त्वचिन्तामणिगतमङ्गलवादः
अत एव दुरितनाशकमपि गङ्गास्नानादि न मङ्गलम् । तथा अविधानात् ।
मङ्गलाचारयुक्तानां नित्यं च प्रयतात्मनाम् ।
जपतां जुह्वतां चैव विनिपातो न विद्यते ॥
४७
इत्यनेन बोधितादर्शदर्शनादेः पृथगेव मङ्गलत्वम्, न तु विघ्ननिवर्तकतया, तत्र नानार्थतैव । अन्यथा ग्रन्थारम्भे नमस्कारतुल्यतया तत्करणप्रसङ्गः ।
अथशब्दो विघ्ननिववर्तकत्वान्मङ्गलमेव ।
ओंकारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा ।
कण्ठं भित्त्वा विनिर्यातौ तेन माङ्गलिकावुभौ ॥ इति स्मृतेः । न च शुभसूचकत्वमेव तस्य शास्त्रारम्भे महर्षिणा तदनुपादानप्रसङ्गात् ।
गुणवत्तया ज्ञापनं स्तुतिः ।
यमुद्दिश्य यस्य स्वापकर्षबोधनानुकूलो व्यापारविशेषः स तस्य नमस्कारः । व्यापारे च कायिकवाचिक मानसिकरूपे विशेषो जातिविशेष एवानुभवसाक्षिकः । करशिरस्संयोगमात्रे तदव्यवहारात्, भवतोऽहमपकृष्ट इत्यादिवचने तदव्यवहाराच्च ।
यद्वा कायिकादौ प्रत्येकमेव विधिकल्पनमतो नानार्थतैव ।
यत्तु — बुद्धिविशेषपूर्वकत्वज्ञानं विना कायिकादौ न तद्व्यवहार इति स एव वाच्योऽन्यत्र लक्षणेति, तन्न, कायिकादिव्यापारविशेषमनवगम्य बुद्धिविशेषपूर्वकत्वाज्ञानात् ।
स्वीकृतवेदप्रमाणभावः शिष्टः । आचारे च वेदानिषिद्धत्वमविगीतत्वं विशेषणं देयम् । यद्वा अलौकिक विषयशिष्टाचारत्वमेव हेतुः । शिष्टाचारत्वं च भ्रमाजन्याचारत्वम् । आस्तिक नास्तिकयोरगम्यागमनचैत्यवन्दनादावाचारजनकज्ञानस्य भ्रमत्वात् बलवदनिष्टानुबन्धित्वादि
ष्टासाधनत्वाच्च ।
लोके च पाखण्डव्यावृत्तशिष्टव्यवहारो वेदप्रमाण्याभ्युपगमनिबन्धनः । तैर्थिकत्वेऽपि शिष्टाशिष्टव्यवहारो वेदनिषिद्धाकर्तृत्वतत्कर्तृत्वनिबन्धनः । यद्वा वेदप्रामाण्याभ्युपगन्ततृत्वे सति यो यदा वेदनिषिद्धाकर्ता स तदा शिष्टः तत्कर्ता त्वशिष्टः । अत एव वेदनिषिद्धाकर्तृत्वेऽपि बौद्धो न शिष्टः । पापजनकत्वज्ञानं विना वेदनिषिद्धकर्तृत्वं यस्य नास्ति स शिष्ट इति तु न । तैर्थिकस्यापि कस्यचित् पापजनकत्वज्ञानं विना वेदनिषिद्धकर्तृत्वात् ।
यत्तु रागद्वेषहीनः शिष्टः । स च सर्वज्ञत्वान्मन्वादिरेव । अविगीततदाचारादेव वेदानुमानमिति, तन्न, एवं हि मन्वाद्याचारादर्शिनामाधुनिकानां मङ्गले प्रवृत्तिर्न स्यात् । आधुनिकानामाचारेण मन्वाद्याचारमनुमाय तेन च वेदमनुमाय बालः प्रवर्तत इति चेत् —– तर्हि यादृशाचारेण मन्वाद्याचारानुमानं स एव वेदानुमापकोऽस्तु, किमनुमितानुमानेन । आधुनिकानामपि शिष्टत्वेन व्यवह्रियमाणत्वाच्च । तथा च स्मृतिः -

Page Navigation
1 ... 84 85 86 87 88 89 90 91