Book Title: Mahasati Sur Sundari
Author(s): Gyansundar
Publisher: Ratna Prabhakar Gyan Pushpamala

View full book text
Previous | Next

Page 61
________________ ॥८॥ (५८) प्रोत्रं श्रुतेनैव न कुण्डलेन । दानेन पाणिर्न तु कङ्कणेन ।। विभाति कायाः खलु सजनानां । परोपकारेण न चन्दनेन ॥७॥ अकिंचनस्य दन्तस्य । शान्तस्य समचेतसः ॥ सदा संतुष्ट मनसः । सर्वासुखमया दिशः । मनोरथ रथारूढं । युक्तमिन्द्रिय वाजिभिः ॥ भ्राम्यत्येव जगत्कृत्स्नं । तृष्णा सारथि चोदितम् अङ्गं गलितं पलितं मुण्डं । दशन विहीनं जातं तुण्डम् । वृद्धो याति गृहीत्वा दण्डं । तदपि न मुश्नत्याशा पिण्डम् ॥१०॥ उद्योग साहसं धैर्य । बुद्धिः शक्तिः पराक्रमः ॥ षडेते यत्र वर्तन्ते । तत्र देवा सहायकृत् ॥११॥ उद्योगिनः करालम्ब । करोति कमलालया ॥. अनुद्योगि करालम्बं । करोति कमला प्रजा ॥१२॥ विदेशेषु धनं विद्या । व्यसनेषु धनं मतिः । परलोके धनं धर्मः । शीलं सर्वत्र वै धनम् ॥१३॥ चन्दनं शीतलं लोके । चन्दनादपि चन्द्रमाः ॥ चन्द्र चन्दनयोर्मध्ये । शितला साधु संगति ॥१४॥ साधूनां दर्शनं पुण्यं । तीर्थभूता हि साधवाः ॥ कालेन फलते तीर्थ । सद्यः साधु समागमः ॥ ॥१५॥ अहो दुर्जन संसर्गा-न्मानहानि: पदे पदे ॥ पावको लोह संगेन । मुद्गरैरभिहन्यते ॥१६॥ परोक्षे कार्य हन्तारं । प्रत्यक्षे प्रिय वादिनम् ॥ वर्जयेत्तादृशं मित्रं । विषकुम्भं पयोमुखम् ॥१७॥ किं जातैबहुभिः पुत्रः । शोक संताप कारकैः ॥ वरमेकः कुलालम्बी । यत्र विश्राम्यते कुलम् ॥१८॥ ताशी नायते बुद्धि र्व्यवसायोऽपि तादृशः ॥ सहायास्तादृशाश्चैव । यादृशी भवितव्यताः ॥१९॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 59 60 61 62