Book Title: Mahanishith Sutram
Author(s): Padmasenvijay, Kulchandravijay
Publisher: Jain Sangh Pindwada

View full book text
Previous | Next

Page 278
________________ २६७ श्री महानिशीथ सूत्रम् - प्रशस्ति - श्रीमद्वीर जिनेशस्य श्रीसुधर्मा गणाधिपः । तपागच्छतरोर्मूलं श्रीगणिपिटकस्य च ।।१।। तस्य परम्पराऽऽयातः प्रवचनप्रभावकः । श्रीमद्विजयसिंहाख्यः सिंहो दुर्वादिकुम्भिषु ।।२।। तस्य पट्टाम्बरे सूर्यः शैथिल्यध्वान्तशोषणः । श्रीसत्यविजयोऽभूच्च सत्यनिष्ठशिरोमणिः ॥३॥ पट्टे तदीयके श्रीमान् कर्पूरविजयाभिधः । अभवदतिकर्पूरः प्रसरच्छीलसौरभः ।।४।। तत्पट्टाभ्रनिशानाथः सनाथः सौम्यभावतः । क्षमाभृतां पुरोगामीश्रीक्षमाविजयोऽभवत् ।।५।। जिनोत्तम-पद्म-रुप-कीर्ति-कस्तूरपूर्वकाः । विजयान्ताः क्रमाऽऽयाताः वित्त्वकवित्वधीधनाः ।।६।। तत्पट्टेस्वतपस्तेजस्तिरस्कृतनभोमणिः । श्रीमणिविजयश्चिन्तामणिरीप्सितदोऽभवत् ।।७।। तस्य शिष्योऽभवबुद्धया विनिर्जितबृहस्पतिः । श्रीबुद्धिविजयः सेव्यो बुधैर्बुद्धिगुणान्वितः ।।८।। तत्पट्टे आद्य आचार्यः, नाम्नाऽऽत्मारामजी अभूत् । ख्यातः श्री विजयानन्दो जगदानन्ददायकः ।।९।। स्मारको जिनकल्पस्य स्वचारित्रेण साम्प्रतम् । श्रीमान् कमलसूरीशः पट्टेऽभूत्तस्य कर्मठः ।।१०।।

Loading...

Page Navigation
1 ... 276 277 278 279 280 281 282