Book Title: Mahanishith Sutram
Author(s): Padmasenvijay, Kulchandravijay
Publisher: Jain Sangh Pindwada

View full book text
Previous | Next

Page 279
________________ २६८ श्री महानिशीथ सूत्रम्-अध्य०८ शिष्यः श्रीविजयानन्दसूरेबभूवसिद्धवाक् । कर्मविदारणवीरः श्रीवीरविजय वाचकः ।।११।। विजयदानसूरीशः शिष्यस्तस्य बुधाग्रणीः । श्रुतदाने सदासक्तः सक्तः सुसाधुसर्जने ।।१२।। तत्कालधीश्च सज्योतिःसर्वागमरहस्यवित् । श्रीमत्कमलसूरीशपट्टप्रभावकोऽभवत् ।।१३।। ।युग्मम्।। तस्याऽभूदभिजः प्रशस्तचरणः शिष्यः समेषां मतः, सेव्यः सार्धचतुःशताधिकमुनिव्रातेन वात्सल्यभूः । स्रष्टा बन्धविधान-कर्मविवृतेः सिद्धान्तपारङ्गतः, कर्मवातविदारणैकसुभटः श्री प्रेमसूरीश्वरः ।।१४।। (शार्दूलविक्रीडितम्) ।। तस्यैव शिष्यलेशेन श्री मित्रानन्दसूरिभिः । सम्पादितां प्रतिं दृष्ट्वा, कुलचन्द्रमुमुक्षुणा ।।१५।। भुवनभानुपट्टेश - जयघोषेरितेन हि । विहितं टिप्पणं स्फुटं, पुनः शोध्यं बहुश्रुतैः ।।१६।। ।युग्मम्।। ग्रन्थसंशोधक-टिप्पणकारजनकेन राजस्थानप्रान्तान्तर्गतश्री पिन्डवाडानगरवास्तव्येन श्रीऋषभदासश्रेष्ठिनाऽऽत्मश्रेयोर्थ-स्वद्रव्यव्ययेनाऽऽलेखितो ग्रन्थोऽयं लेखक श्रीजगदीशदासेन । ॥ शिवमस्तु सर्वजगतः ॥

Loading...

Page Navigation
1 ... 277 278 279 280 281 282