Book Title: Mahabharat Samhita Part 02
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute
View full book text ________________ 7. 162. 34 ] महाभारते [7. 163.9 तद्धोरं महदाश्चर्यं सर्वे प्रेक्षन्समन्ततः / रथर्षभाणामुग्राणां संनिपातममानुषम् // 34 रथमागैर्विचित्रैश्च विचित्ररथसंकुलम् / अपश्यरथिनो युद्धं विचित्रं चित्रयोधिनाम् // 35 यतमानाः पराक्रान्ताः परस्परजिगीषवः / जीमूता इव धर्मान्ते शरवर्षैरवाकिरन् // 36 ते रथान्सूर्यसंकाशानास्थिताः पुरुषर्षभाः / अशोभन्त यथा मेघाः शारदाः समुपस्थिताः // 37 स्पर्धिनस्ते महेष्वासाः कृतयत्ना धनुर्धराः / अभ्यगच्छंस्तथान्योन्यं मत्ता गजवृषा इव // 38 न नूनं देहभेदोऽस्ति काले तस्मिन्समागते / यत्र सर्वे न युगपद्वयशीर्यन्त महारथाः // 39 बाहुभिश्चरणैश्छिन्नैः शिरोभिश्चारुकुण्डलैः / / कार्मुकैर्विशिखैः प्रासैः खङ्गैः परशुपट्टिशैः // 40 नालीकक्षुरनाराचैर्नखरैः शक्तितोमरैः / अन्यैश्च विविधाकारैधौतैः प्रहरणोत्तमैः // 41 चित्रैश्च विविधाकारैः शरीरावरणैरपि / विचित्रैश्च स्थैर्भग्नैर्हतैश्च गजवाजिभिः // 42 शून्यैश्च नगराकारैर्हतयोधध्वजै रथैः / अमनुष्यैहयैस्त्रस्तैः कृष्यमाणैस्ततस्ततः // 43 वातायमानैरसकृद्धतवीरैरलंकृतैः / व्यजनैः कङ्कटैश्चैव ध्वजैश्च विनिपातितैः // 44 छत्रैराभरणैर्वस्त्रैर्माल्यैश्च सुसुगन्धिभिः / हारैः किरीटैमुकुटैरुष्णीषैः किङ्किणीगणैः // 45 उरस्थैर्मणिभिनिष्कैश्चूडामणिभिरेव च / आसीदायोधनं तत्र नभस्तारागणैरिव // 46 . ततो दुर्योधनस्यासीन्नकुलेन समागमः / अमर्षितेन क्रुद्धस्य क्रुद्धेनामर्षितस्य च // 47 अपसव्यं चकाराथ माद्रीपुत्रस्तवात्मजम् / किरशरशतैर्दृष्टस्तत्र नादो महानभूत् // 48 अपसव्यं कृतः संख्ये भ्रातृव्येनात्यमर्षिणा / सोऽमर्षितस्तमप्याजी प्रतिचक्रेऽपसव्यतः // 49 ततः प्रतिचिकीर्षन्तमपसव्यं तु ते सुतम् / न्यवारयत तेजस्वी नकुलचित्रमार्गवित् // 50 सर्वतो विनिवार्यनं शरजालेन पीडयन् / विमुखं नकुलश्चक्रे तत्सैन्याः समपूजयन् // 51 तिष्ठ तिष्ठति नकुलो बभाषे तनयं तव / संस्मृत्य सर्वदुःखानि तव दुर्मत्रितेन च // 52 इति श्रीमहाभारते द्रोणपर्वणि द्विषष्टयधिकशततमोऽध्यायः॥ 162 // 163 संजय उवाच। ततो दुःशासनः क्रुद्धः सहदेवमुपाद्रवत् / रथवेगेन तीव्रण कम्पयन्निव मेदिनीम् // 1 तस्यापतत एवाशु भल्लेनामित्रकर्शनः / माद्रीसुतः शिरो यन्तुः सशिरस्त्राणमच्छिनत् // 2 नैनं दुःशासनः सूतं नापि कश्चन सैनिकः / हृतोत्तमाङ्गमाशुत्वात्सहदेवेन बुद्धवान् // 3 यदा त्वसंगृहीतत्वात्प्रयान्त्यश्वा यथासुखम् / ततो दुःशासनः सूतं बुद्धवान्गतचेतसम् // 4 स हयान्संनिगृह्याजौ स्वयं हयविशारदः / युयुधे रथिनां श्रेष्ठश्चित्रं लघु च सुष्टु च // 5 तदस्यापूजयन्कर्म स्वे परे चैव संयुगे। हतसूतरथेनाजी व्यचरद्यदभीतवत् // 6 सहदेवस्तु तानश्वांस्तीक्ष्णैर्बाणैरवाकिरत् / पीड्यमानाः शरैश्चाशु प्राद्रवंस्ते ततस्ततः // 7 स रश्मिषु विषक्तत्वादुत्ससर्ज शरासनम् / धनुषा कर्म कुर्वस्तु रश्मीन्स पुनरुत्सृजत् // 8 छिद्रेषु तेषु तं बाणैर्माद्रीपुत्रोऽभ्यवाकिरत् / परीप्संस्त्वत्सुतं कर्णस्तदन्तरमवापतत् // 9 -1606
Loading... Page Navigation 1 ... 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770