________________ 7. 162. 34 ] महाभारते [7. 163.9 तद्धोरं महदाश्चर्यं सर्वे प्रेक्षन्समन्ततः / रथर्षभाणामुग्राणां संनिपातममानुषम् // 34 रथमागैर्विचित्रैश्च विचित्ररथसंकुलम् / अपश्यरथिनो युद्धं विचित्रं चित्रयोधिनाम् // 35 यतमानाः पराक्रान्ताः परस्परजिगीषवः / जीमूता इव धर्मान्ते शरवर्षैरवाकिरन् // 36 ते रथान्सूर्यसंकाशानास्थिताः पुरुषर्षभाः / अशोभन्त यथा मेघाः शारदाः समुपस्थिताः // 37 स्पर्धिनस्ते महेष्वासाः कृतयत्ना धनुर्धराः / अभ्यगच्छंस्तथान्योन्यं मत्ता गजवृषा इव // 38 न नूनं देहभेदोऽस्ति काले तस्मिन्समागते / यत्र सर्वे न युगपद्वयशीर्यन्त महारथाः // 39 बाहुभिश्चरणैश्छिन्नैः शिरोभिश्चारुकुण्डलैः / / कार्मुकैर्विशिखैः प्रासैः खङ्गैः परशुपट्टिशैः // 40 नालीकक्षुरनाराचैर्नखरैः शक्तितोमरैः / अन्यैश्च विविधाकारैधौतैः प्रहरणोत्तमैः // 41 चित्रैश्च विविधाकारैः शरीरावरणैरपि / विचित्रैश्च स्थैर्भग्नैर्हतैश्च गजवाजिभिः // 42 शून्यैश्च नगराकारैर्हतयोधध्वजै रथैः / अमनुष्यैहयैस्त्रस्तैः कृष्यमाणैस्ततस्ततः // 43 वातायमानैरसकृद्धतवीरैरलंकृतैः / व्यजनैः कङ्कटैश्चैव ध्वजैश्च विनिपातितैः // 44 छत्रैराभरणैर्वस्त्रैर्माल्यैश्च सुसुगन्धिभिः / हारैः किरीटैमुकुटैरुष्णीषैः किङ्किणीगणैः // 45 उरस्थैर्मणिभिनिष्कैश्चूडामणिभिरेव च / आसीदायोधनं तत्र नभस्तारागणैरिव // 46 . ततो दुर्योधनस्यासीन्नकुलेन समागमः / अमर्षितेन क्रुद्धस्य क्रुद्धेनामर्षितस्य च // 47 अपसव्यं चकाराथ माद्रीपुत्रस्तवात्मजम् / किरशरशतैर्दृष्टस्तत्र नादो महानभूत् // 48 अपसव्यं कृतः संख्ये भ्रातृव्येनात्यमर्षिणा / सोऽमर्षितस्तमप्याजी प्रतिचक्रेऽपसव्यतः // 49 ततः प्रतिचिकीर्षन्तमपसव्यं तु ते सुतम् / न्यवारयत तेजस्वी नकुलचित्रमार्गवित् // 50 सर्वतो विनिवार्यनं शरजालेन पीडयन् / विमुखं नकुलश्चक्रे तत्सैन्याः समपूजयन् // 51 तिष्ठ तिष्ठति नकुलो बभाषे तनयं तव / संस्मृत्य सर्वदुःखानि तव दुर्मत्रितेन च // 52 इति श्रीमहाभारते द्रोणपर्वणि द्विषष्टयधिकशततमोऽध्यायः॥ 162 // 163 संजय उवाच। ततो दुःशासनः क्रुद्धः सहदेवमुपाद्रवत् / रथवेगेन तीव्रण कम्पयन्निव मेदिनीम् // 1 तस्यापतत एवाशु भल्लेनामित्रकर्शनः / माद्रीसुतः शिरो यन्तुः सशिरस्त्राणमच्छिनत् // 2 नैनं दुःशासनः सूतं नापि कश्चन सैनिकः / हृतोत्तमाङ्गमाशुत्वात्सहदेवेन बुद्धवान् // 3 यदा त्वसंगृहीतत्वात्प्रयान्त्यश्वा यथासुखम् / ततो दुःशासनः सूतं बुद्धवान्गतचेतसम् // 4 स हयान्संनिगृह्याजौ स्वयं हयविशारदः / युयुधे रथिनां श्रेष्ठश्चित्रं लघु च सुष्टु च // 5 तदस्यापूजयन्कर्म स्वे परे चैव संयुगे। हतसूतरथेनाजी व्यचरद्यदभीतवत् // 6 सहदेवस्तु तानश्वांस्तीक्ष्णैर्बाणैरवाकिरत् / पीड्यमानाः शरैश्चाशु प्राद्रवंस्ते ततस्ततः // 7 स रश्मिषु विषक्तत्वादुत्ससर्ज शरासनम् / धनुषा कर्म कुर्वस्तु रश्मीन्स पुनरुत्सृजत् // 8 छिद्रेषु तेषु तं बाणैर्माद्रीपुत्रोऽभ्यवाकिरत् / परीप्संस्त्वत्सुतं कर्णस्तदन्तरमवापतत् // 9 -1606