Book Title: Mahabharat Samhita Part 02
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute

View full book text
Previous | Next

Page 10
________________ 5. 1. 12] महाभारते [5. 2. 1 मज्ञायमानैर्भवतां समीपे। क्लेशानसह्यांश्च तितिक्षमाणे यथोषितं तद्विदितं च सर्वम् // 12 एवं गते धर्मसुतस्य राज्ञो दुर्योधनस्यापि च यद्धितं स्यात् / तच्चिन्तयध्वं कुरुपाण्डवानां धयं च युक्तं च यशस्करं च // 13 अधर्मयुक्तं च न कामयेत राज्यं सुराणामपि धर्मराजः / धर्मार्थयुक्तं च महीपतित्वं ग्रामेऽपि कस्मिंश्चिदयं बुभूषेत् // 14 / पित्र्यं हि राज्यं विदितं नृपाणां __ यथापकृष्टं धृतराष्ट्रपुत्रैः। मिथ्योपचारेण तथाप्यनेन कृच्छ्रे महत्प्राप्तमसह्यरूपम् // 15 न चापि पार्थो विजितो रणे तैः स्वतेजसा धृतराष्ट्रस्य पुत्रैः। तथापि राजा सहितः सुहृद्भि रभीप्सतेऽनामयमेव तेषाम् // 16 यत्तत्स्वयं पाण्डुसुतैर्विजित्य समाहृतं भूमिपतीन्निपीड्य / तत्प्रार्थयन्ते पुरुषप्रवीराः कुन्तीसुता माद्रवतीसुतौ च // 17 बालास्त्विमे तैर्विविधैरुपायैः संप्रार्थिता हन्तुममित्रसाहाः / राज्यं जिहीर्षद्भिरसद्भिरुप्रैः सर्वं च तद्वो विदितं यथावत् // 18 तेषां च लोभं प्रसमीक्ष्य वृद्धं धर्मात्मतां चापि युधिष्ठिरस्य / संबन्धितां चापि समीक्ष्य तेषां मतिं कुरुध्वं सहिताः पृथक्च // 19 इमे च सत्येऽभिरताः सदैव तं पारयित्वा समयं यथावत् / अतोऽन्यथा तैरुपचर्यमाणा हन्युः समेतान्धृतराष्ट्रपुत्रान् // 20 . तैर्विप्रकारं च निशम्य राज्ञः सुहृजनास्तान्परिवारयेयुः / युद्धेन बाधेयुरिमांस्तथैव तैर्वध्यमाना युधि तांश्च हन्युः // 21 तथापि नेमेऽल्पतया समर्था स्तेषां जयायेति भवेन्मतं वः / समेत्य सर्वे सहिताः सुहृद्भि स्तेषां विनाशाय यतेयुरेव / / 22 दुर्योधनस्यापि मतं यथाव न ज्ञायते किं नु करिष्यतीति / अज्ञायमाने च मते परस्य किं स्यात्समारभ्यतमं मतं वः // 23 . तस्मादितो गच्छतु धर्मशील: शुचिः कुलीनः पुरुषोऽप्रमत्तः / दूतः समर्थः प्रशमाय तेषां .. राज्यार्धदानाय युधिष्ठिरस्य // 24 निशम्य वाक्यं तु जनार्दनस्य - धर्मार्थयुक्तं मधुरं समं च। समाददे वाक्यमथाग्रजोऽस्य संपूज्य वाक्यं तदतीव राजन् // 25 इति श्रीमहाभारते उद्योगपर्वणि प्रथमोऽध्यायः // 1 // बलदेव उवाच। श्रुतं भवद्भिर्गदपूर्वजस्य . -878 -

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 770