Book Title: Lalit Vistara
Author(s): Bhadrankarsuri, Vikramsenvijay
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra
View full book text
________________
લલિતવિરા
આ રિ-રચિત
૪૬૨
लोद्रवापार्श्वनाथाष्टकम्
कर्ता - मुनिराज श्री भद्रंकरविजयजी
(मन्दाक्रान्तावृत्तम्)
प्रोत्तेजः फणगणयुजा भोगिना लाञ्छितो यो विश्वे जैत्राशुगसुमशरं मुग्धमारं जिगाय । अष्टैश्वर्यः सुगणमहितोऽत्यन्तभूतिर्महेशः साक्षात्पार्श्वः शिव इव विभुः शोभते लोद्रवाख्यः
येषामेषा चरणयुगली कल्पवल्ली प्रसन्ना पुण्यैर्लभ्या सकलसुमनोवाञ्छितार्थप्रदात्री । शश्वबन्धा सुरनरवरैः प्राणिदारिग्रहत्री ते पार्श्वेशाः झटिति भविनां कामनां पूरयन्तु
श्यामच्छायो जलशय इव श्लीलपद्माप्रियो यः चञ्चन्नव्याञ्जनरुचिपदं भीष्मकालप्रणाशी । नष्टारिष्टस्त्रिभुवनतले मोहनीयाकृतिः सः कुर्यात्पार्श्वो भविककुशलं लोद्रवाख्यो जिनेन्द्रः
विश्वव्यापी सुरपथ इवानन्तनित्यस्वभावो रूपाच्छून्यो स्फुरति महिमा यस्य पार्श्वेशितुश्च । भास्वद्धाभासुरसुरसुरी गीतकीर्तिः सुमूर्तिः पुष्यात्पार्श्वो लसितविभवः शर्म नृणां स नित्यम्
निर्यत्साम्यामृतरसझरे पद्मजैत्रे सुनेत्रे मुक्तायुक्ता सुमणिजटिला कण्ठदेशे च माला । भ्राजद्भाले सुभगतिलकं व्योम्नि मार्तण्डतुल्यं पार्श्वेशानां दिशतु सहृदां शर्ममालां त्रयीयम्
ગુજરાતી અનુવાદક
मा.
તીકસરમાસા,
|| 9 ||
॥ २ ॥
॥ ३ ॥
11 8 11
॥ ५ ॥

Page Navigation
1 ... 513 514 515 516 517 518