Book Title: Kshetra Sparshana Prakaranam
Author(s): Jagatchandravijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 8
________________ श्री महावीर स्वामिने नमः श्री प्रेमसूरीश्वरगुरुभ्यो नमः परिमाणादितत्तद्द्द्वारेषु तद्वृत्त्यादौ निरयगत्योघादिसप्तत्युत्तरशतमार्गणास्वविशेषेणाभिहितस्य संख्येयाऽसंख्येयादिलक्षणस्य बन्धकपरिमाणस्य विशेषेणाऽवबोधार्थं सावचूरिकं द्रव्यप्रमाणप्रकरणम् (अवचूरि:) चरमं तीर्थपतिं नत्वा, गच्छेशं स्वगुरूंस्तथा । ग्रन्थे द्रव्यप्रमाणाख्ये व्याख्या किञ्चिद्वितन्यते ॥ १ ॥ इह लघु अवधारणाय यथार्थाभिधानस्य द्रव्यप्रमाणप्रकरणाऽऽरिप्सया प्रथमं तावन् मङ्गलादिप्रतिपादिका गाथाभिधीयते'नमिउं' इत्यादि, नमिउं अरिहंताई सगुरुपसाया सुयाणुसारेणं । इआइाणेसुं भणिमो जीवाण परिमाणं ॥ १ ॥ इह पूर्वार्धन मङ्गल-सम्बन्धौ साक्षादुक्तौ, उत्तरार्धेन त्वभिधेयम्, प्रयोजनं तु सामर्थ्यगम्यम् । तत्र अरीणां रागद्वेषाद्यान्तरशत्रूणां हननात्, यद्वा चतुस्त्रिंशतमतिशयात् देवेन्द्रादिकृतां पूजां वाऽर्हन्तीत्यर्हन्तस्ते आदौ येषामर्हसिद्धाऽऽचार्योपाध्यायसाधूनां तेऽर्हदादयस्तानर्हदादीनं 'नत्वा' कायवाङ्मनोयोगैः प्रणम्य 'स्वगुरूणां भवविरागजनक-सम्यग्दर्शनज्ञा १५. नादिप्रापकपोषकप्रव्रज्याप्रदायकादीनां गच्छाधिपति श्रीमत्प्रेमसूरीश्वरतातपादप्रभृतीनां प्रसादात् 'श्रुतानुसारेण' आगमार्थमनतिक्रम्य 'गइआइडाणेसुं' ति गत्यादीनि गतीन्द्रियकायादिलक्षणानि निरयगत्योघप्रथमद्वितीयपृथिव्यादि-निरयभेदादितदुत्तरभेदलक्षणानि च यानि सप्तत्यु - त्तरशतमार्गणास्थानानि तानि मध्यमपदलोपाद्गत्यादिस्थानानि तेषु 'जीवाण' त्ति अस्मदादीनां कर्मनिगडनिबद्धानां प्राणिनाम् अनेन सिद्धानां व्यवच्छेदो बोद्धव्यः । तेषां 'परिमाणं' संख्येयत्वाऽसंख्येयत्वादिलक्षणं संख्यामानं 'भणामि त्ति 'सत्सामीप्ये' इत्याद्यनुशासनादनुपदं भणिष्यामीत्याद्यगाथार्थः ॥ १ ॥ णिरये य पढमणिरये, भवणवइसुरम्मि आइमदुकप्पे । अंगुल असंखभाग समित्ताउ सेढीओ ॥२॥ प्रतिज्ञातमेव निर्वाहयन्नाह - 'णिरये 'त्यादि, निरयगत्योघे, प्रथमपृथिवीनिरयभेदे, भवनपति सुरभेदे, सौधर्मे - शानकल्पद्वयलक्षणे आद्यकल्पद्वये चेत्येवं पञ्चमार्गणास्थानेषु प्रत्येकम् ' अंगुले 'त्यादि, अगुलस्याऽसंख्येयतमे भागे यावन्तो नभप्रदेशास्तावत्संख्याका सप्तरज्ज्वायतासु सूचिश्रेणिषु यावन्त आकाशप्रदेशास्तावन्तो जीवाः सन्तीत्यर्थः ॥२॥ सेसणिरय तइआइछ कप्प - नरेसुं अपज्जमणुसे य । सेढिअसंखंसो सुर वंतर - जोइससुरेसुं य ॥३॥ १६

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51