Book Title: Kshetra Sparshana Prakaranam
Author(s): Jagatchandravijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 9
________________ सव्वेसु पणिदितिरिय विगल-पणिदि-तसकाय-मण-वयणेसुं । बायरसमत्त-भू-दग पत्तेअवणेसु विक्कियदुजोगेसुं ॥४॥ थी-पुरिस-विभंग-णयण सुहलेसतिगेसु तह य सण्णिम्मि । पयरअसंखंसडिअ सेढिगयपएसतुल्लाऽस्थि ॥५॥ 'सेसणिरये' त्यादि, शेषेषु द्वितीयादिपृथिवीभेदभिन्नेषु षट्षु निरयेषु, तृतीयादिषु सनत्कुमार-माहेन्द्र-ब्रह्म-लान्तक-शुक्र-सहस्राराख्येषु षट्षु कल्पेषु, 'नर' त्ति मनुष्यगत्योघे, अपर्याप्तमनुष्ये चेत्येवं चतुर्दशमार्गणास्थानेषु प्रत्येकं 'सेढिअसंखंसो' त्ति सप्तरज्ज्वायताया एकप्रादेशिक्याः श्रेणेः 'असंख्यांश:'-असंख्यभागगताकाशप्रदेशैः परिमिता जीवा: सन्तीत्यर्थः । ___ 'सुरवंतरे 'त्यादि, देवगत्योघे, व्यन्तरसुर-ज्योतिष्कसुरयोः, सर्वेष्वोघ-पर्याप्ता-ऽपर्याप्तातिरश्चीभेदभिन्नेषु पञ्चेन्द्रियतिर्यग्भेदेषु सर्वेष्वोघ-पर्याप्ता-ऽपर्याप्तभेदभिन्नेषु 'विकल' त्ति द्वीन्द्रिय-त्रीन्द्रियचतुरिन्द्रियास्तेषामेकैकस्य त्रिषु त्रिषु भेदेषु, तथैव सर्वेषु त्रिसंख्याकेषु पञ्चेन्द्रियजातिभेदेषु, सर्वेषु त्रिसंख्याकेषु त्रसकायभेदेषु, सर्वेष्वोधोत्तरभेदभिन्नेषु पञ्चसु मनोयोगभेदेषु तथैव पञ्चसु वचोयोगभेदेषु, तथा 'बायरसमत्ते' त्यादि, तत्र समाप्तशब्द: पर्याप्तवाची, ततो बादरपर्याप्तपृथिवीकायाऽप्काययोः, बादरपर्याप्तप्रत्येकवनस्पतिकाये, वैक्रियतन्मिश्रयोगलक्षणयोर्द्वयोर्योगयोः, स्त्रीवेद-पुरुषवेद-विभङ्गज्ञानेषु, 'णयण' त्ति चक्षुर्दर्शने, तेज:-पद्म-शुक्ललेश्यालक्षणे शुभलेश्यात्रिके तथा संज्ञिनीत्येवं पञ्चचत्वारिंशन्मार्गणास्थानेषु प्रत्येकं 'पयरे' त्यादि, घनीकृतलोकस्य यत्प्रतरं तस्यासंख्यांशस्थितासु श्रेणिषु यावन्तो नभःप्रदेशास्तावद्भिर्नभःप्रदेशैस्तुल्या जीवाः सन्तीत्यर्थः ॥३-४-५॥ संखेज्जा मणुसी-नर पज्जा-ऽवेअ-मणणाण-सव्वत्थे । संयम-छेअ-समाइअ सुहुमा-ऽऽहारदुग-परिहारे ॥६॥ 'संखेज्जा' इत्यादि, मानुषी, पर्याप्तमनुष्यः, अपगतवेदः, मनःपर्यवज्ञानम्, सर्वार्थसिद्धदेवः, संयमोघः, सामायिकसंयमः, छेदोपस्थापनसंयमः, परिहारविशुद्धिकसंयमः, सूक्ष्मसम्परायसंयमः, आहारक-तन्मिश्रयोगलक्षणमाहारकद्विकं चेत्येवं द्वादश-मार्गणास्थानेषु प्रत्येकं संख्येया जीवाः सन्ति ॥६॥ सेसाऽऽणताइसुर-मइ सुय-ऽवहिदुग-देसविरय-सम्मेसु उ । पल्लाउसंखंसो उव सम-वेअग-खइअ-मीस-सासाणेसुं ॥७॥ 'सेसाणताई 'त्यादि भणितशेषेष्वानतकल्पादिषु चतुरनुत्तरविमानान्तेषु सप्तदशसु सुरभेदेषु, मतिज्ञान-श्रुतज्ञाना-ऽवधिद्विक-देशविरतसम्यक्त्वौघेषु, तथा 'पल्लासंखंसो उवसमे'त्यादि, औपशमिकसम्यक्त्वे क्षायिकसम्यक्त्व-मिश्रदृष्टि-सासादनदृष्टिष्वित्येवमष्टाविंशतिमार्गणास्थानेषु पल्योपमस्याऽसंख्यभागो जीवा ज्ञेयाः । इह हि 'सम्मेसुं उ' इत्यत्र तुकारो विशेषद्योतनार्थः, अर्थात् 'पल्लाऽसंखंसो' इति सामान्येनोक्तेऽपि आनतकल्पादि-सप्तदशदेवगतिमार्गणास्थानेषु क्षायिकसम्यक्त्वे च 'पल्ल' १७

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51