Book Title: Kriyagarbhit Chaturvinshati Jinastuti Author(s): M A Dhaky, Jitendra B Shah Publisher: Z_Nirgrantha_1_022701.pdf and Nirgrantha_2_022702.pdf and Nirgrantha_3_022703.pdf View full book textPage 5
________________ ૧૩૬ મધુસૂદન ઢાંકીઃ જિતેન્દ્ર શાહ Nirgrantha (प्रहर्षिणी वृत्तम्) संसारे वन इव दुर्गतित्रियामा व्यापारस्खलितदृशां चिरं जनेन । प्रत्यूषे रविमिव सुक्षिणेन (?) वीक्ष्य त्वां शान्ते ! प्रकटित दुर्गमोक्षमार्गम् ॥१६॥ (प्रमिताक्षरा छन्दः) कृतकर्मनिर्मथन ! कुन्थुजिन ! प्रयतस्त्वमुज्ज्वल तपश्चरणे । अपि सार्वभौम विभवं तृणवनतनैकनारकिजनराजगण ! ॥१७॥ (शालिनी वृत्तम्) क्षान्त्याधार ! ध्वस्तदुर्वारमार ! ज्ञानोदार ! प्राप्तसंसारपार ! । '२२मुक्तेदार ! व्यक्तधर्मावतार ! स्वर्णाकार ! प्राणिजातं जिनार ||१८|| (वैश्वदेवी वृत्तम्) २५गीर्वाणश्रेणिमुक्तमन्दारमाला स्रस्तं किञ्जल्कं सर्वतो विस्फुरन्तम् । एतस्मिन्नीले मलिनाथ ! त्वदङ्गे प्रातस्सं भानोोमनीव प्रकाशम् ॥१९॥ (प्रबोधिता छन्दः) मृगनाभिसनाभिता२६ रुचा वपुषस्त्वं यदि सुव्रत ! प्रभो ! । ननु निर्मल निर्मलात्मनामुपमानत्वमुपागतः कथम् ॥२०॥ (पथ्या छन्दः) भवतः कमाङ्गलिनखावलीनिर्गतै रजनीश्वरोज्ज्वलतरैः प्रभाजालिकै:२७ । भगवन् ! नमे ! नमनशालिनां मौलिषु २“स्फुटमालतीकुसुममालिकालङ्कृतिः ॥२१॥ (हरिणी वृत्तम्) नियतमिति नो मिथ्यावादाः स्मरं सह "तृष्णया, यदसि विमुखो राजीमत्यामथापि नृपश्रियाम् । कथमिव ततः स्वामिन् ! नेमे । रतो विरतिः स्त्रियां शिवपदपुर: साम्राज्यातौ भृशं च समुत्सुकः ॥२२॥ (शार्दूलविक्रीडितम्) भर्ता भोगभृतां मणिप्रणयवान् यदूर्ध्वमार्गेऽशुभद् ध्यानाग्नेः स्खलयन् स्फुलिङ्गशबलं धूमोद्गमाडम्बरम् । स त्वं पार्श्व ! विशुद्धवैभवनिधे ! व्याधूतभूतग्रहग्रामस्थाम सुनामधेय ! भगवन् ! विघ्नौघनिघ्नं जनम् ॥२३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 3 4 5 6