Book Title: Kriyagarbhit Chaturvinshati Jinastuti Author(s): M A Dhaky, Jitendra B Shah Publisher: Z_Nirgrantha_1_022701.pdf and Nirgrantha_2_022702.pdf and Nirgrantha_3_022703.pdf View full book textPage 4
________________ ૧૩૫ Vol. III - 1997-2002 સાગરચંદ્રકૃત ક્રિયાગર્ભિત “ચતુર્વિશતિજિનસ્તુતિ त्वद्गुणभावनयामतिमान्य: स्वस्ति परं परयाऽपि स तुल्यम् ॥७॥ (भुजङ्गप्रयातम्) तवान्तःसभं देशनारम्भभाजः स्फुरन्त्यादराभावितन्यासमन्तात् । जनः १०स्वेऽतिमानं चिरोपार्जितेन मलेनेव चन्द्रप्रभ ! प्रोज्झितात्मा ॥८॥ (पुष्पिताग्रा वृत्तम्) सुविधिजिन ! कदाचनापि पङ्को-१२ द्भवसुभगौ सकलश्रियां निवासौ । न हृदयविषयं त्वदीयपादौ नियतमतोऽहमभाजनं शुभानाम् ॥९॥ (द्रुतविलम्बितम्) खरतराघनिदाघभवक्लम प्रशमवारिद ! देव ! नतात्मनाम् । भगवता भवता शुभमद्भुतं, चरितपूतमहीतल ! शीतल ! ॥१०॥ (उपजातिश्छन्दः) जलाञ्जलिं दातुमना जन ! त्वं बलीयसे चेद्भवशात्रवाय । वितीर्णलोकत्रयकम्पनाय श्रेयांसमश्रर स्तरसस्तदानीम् ॥११॥ (श्रग्विणी वृत्तम्) स्वामिनः किन्नराणां नराणां च ये स्वर्गिणो ये सुरैश्वर्यभाजश्च ये । प्राप्य सर्वेऽप्यहपूर्विका सर्वदा ते भवत्पूजने वासुपूज्य ! प्रभो ! ॥१२॥ (गुणमणिनिकर छन्दः) १५निरुपमपरहितवितरणनिरत ! त्वमसमशमधननिधनविरहित !! विमल ! विमलयतमगुणगणविभवैः सकलभुवनतलवदनतिलकताम् ॥१३|| (स्वागता छन्दः) शीतदीधितिकलारुचिरामा त्वद्गुणावलिरनन्त ! जिनेश ! । यो न कृत्स्त्रजगतामपि "कुक्षौ मादृशां कथमसौ कलनीया ॥१४॥ (रुचिता छन्दः) चिराजिता सुचिरपित्तजन्मना गुरूष्मणा प्रति कलमाकुलीकृताः । गिरं पयो "मधुरतरां निपीय ते शरीरिणो जिनवर ! धर्म ! निर्वृतिम् ॥१५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6