Book Title: Khuddakpatho
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 4
________________ प्राङिनवेदनम् पालिवाङमयस्य नागराक्षरे मुद्रणं अत्यपेक्षितमिति नाविदितचरं भारतीयेतिहासविविदिषूणाम् । संस्कृतपालिभाषयोरतिसामीप्यादपि यत् परस्सहसेभ्यः जिज्ञासुभ्यः संस्कृतज्ञेभ्यः पालिग्रन्थराश्यवगाहनं दुष्करमिव प्रतिभाति तत् लिपिभेदादेव । एतदर्थमयमस्माकमभिनवः प्रयासः । अत्र नूतना अपि पाठभेदाः निधेया इत्यासीदस्माकं मनीषा परं कालात्ययभीत्याऽत्र प्रथमभागे धम्मपदादन्यत्र न तत् कृतमभूत् । अधोटिप्पणीषु सन्निवेशिताः पाठभेदाः। प्राय: Pali Text Society मुद्रितेभ्यो ग्रन्थेभ्य उद्धृताः । अर्थसाहाय्यं विना अस्मत्समीहितं हृदि निगूहितमेव स्यात् । तत्र भदन्तेन उत्तमस्थविरेण साहाय्यं प्रदाय महदुपकृतमिति निवेदयंति-- कार्तिकशुक्लैकादश्यां २४८० बुद्धाब्दे राहुलः सांकृत्यायनः आनन्दः कौसल्यायनः जगदीशः काश्यपश्च Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16