________________
अ. १. सू. ८ ]
काव्यानुशासनम्
मदं नवैश्वर्यलवेन लम्भितं विसृज्य पूर्वः समयो विमृश्यताम् । . जगज्जियत्सातुरकण्ठपद्धतिर्न वालिनैवाहिततृप्तिरन्तकः ॥ ११ ॥
[जा. ह. स. १२. श्लो. ३६ ] आप्तवचनमागमः । तत्र शैवागमनैपुणं यथाघोरघोरतरातीतब्रह्मविद्याकलातिगः ।
. परापरपदव्यापी पायाद्वः परमेश्वरः ॥ १२ ॥
५
.
१०
बौद्धागमनैपुणं यथा
कलिकलुषकृतानि यानि लोके मयि निपतन्तु विमुच्यतां स लोकः । मम हि सुचरितेन सर्वसत्त्वाः
परमसुखेन सुखावनी प्रयान्तु ॥ १३ ॥ [ एवमागमान्तरेष्वपि । तर्कः षट्प्रकारः । तत्राहतो यथाशरीरपरिमाण आत्मा । अन्यथा शरीराफल्यमात्माफल्यं वा । तन्नैपुण्यं यथा
शरीरमात्रमात्मानं ये विदन्ति जयन्ति ते ।
तच्चुम्बनेऽपि यज्जातः सर्वाङ्गपुलकोऽस्य मे ॥ १४ ॥ बौद्धीयो यथा-विवक्षापूर्वा हि शब्दास्तामेव विवक्षा सूचयेयुः । तन्नैपुण्यं यथा
भवतु विदितं शब्दा वक्तुर्विवक्षितसूचकाः स्मरवति यतः कान्ते कान्तां बलात्परिचुम्बति । न न न म म मा मा मां स्प्राक्षोनिषेधपरं वचो
भवति शिथिले मानप्रन्थौ तदेव विधायकम् ।।१५॥ [ 1. A. मंद 2. C. लम्बित 3. A. B. ०क्षतानि तानि 4. A. परमसुखोवनी 5. A. ०त्मानयोर्वदन्ति 6. A. B. य ज्ञातः सर्वागः
२०
]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org