SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ अ. १. सू. ८ ] काव्यानुशासनम् मदं नवैश्वर्यलवेन लम्भितं विसृज्य पूर्वः समयो विमृश्यताम् । . जगज्जियत्सातुरकण्ठपद्धतिर्न वालिनैवाहिततृप्तिरन्तकः ॥ ११ ॥ [जा. ह. स. १२. श्लो. ३६ ] आप्तवचनमागमः । तत्र शैवागमनैपुणं यथाघोरघोरतरातीतब्रह्मविद्याकलातिगः । . परापरपदव्यापी पायाद्वः परमेश्वरः ॥ १२ ॥ ५ . १० बौद्धागमनैपुणं यथा कलिकलुषकृतानि यानि लोके मयि निपतन्तु विमुच्यतां स लोकः । मम हि सुचरितेन सर्वसत्त्वाः परमसुखेन सुखावनी प्रयान्तु ॥ १३ ॥ [ एवमागमान्तरेष्वपि । तर्कः षट्प्रकारः । तत्राहतो यथाशरीरपरिमाण आत्मा । अन्यथा शरीराफल्यमात्माफल्यं वा । तन्नैपुण्यं यथा शरीरमात्रमात्मानं ये विदन्ति जयन्ति ते । तच्चुम्बनेऽपि यज्जातः सर्वाङ्गपुलकोऽस्य मे ॥ १४ ॥ बौद्धीयो यथा-विवक्षापूर्वा हि शब्दास्तामेव विवक्षा सूचयेयुः । तन्नैपुण्यं यथा भवतु विदितं शब्दा वक्तुर्विवक्षितसूचकाः स्मरवति यतः कान्ते कान्तां बलात्परिचुम्बति । न न न म म मा मा मां स्प्राक्षोनिषेधपरं वचो भवति शिथिले मानप्रन्थौ तदेव विधायकम् ।।१५॥ [ 1. A. मंद 2. C. लम्बित 3. A. B. ०क्षतानि तानि 4. A. परमसुखोवनी 5. A. ०त्मानयोर्वदन्ति 6. A. B. य ज्ञातः सर्वागः २० ] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy