Book Title: Kavya Sudhakar
Author(s): Ajitsagarsuri
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 501
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ४३१ ) यत्पादपङ्कज रतिः शुभदा नराणां, सूरीशबुद्धिजलधिः स्वगतिं प्रयातः ॥ ७ ॥ हे सद्गुरो ? मतिसुधाकर ? तावकीनं, पादारविन्दमतुलं सततं स्मरामि; नान्यन्मदीयशरणं कलयामि सूरे ? संसारतारक ? विभो ? भवपारगामिन् ॥ ८ ॥ श्रीमद्योगनिष्ठसद्गुरु श्रीबुद्धिसागरसूरीश्वर - विरहाष्टकम् ॥ शार्दूलविक्रीडितम् । श्रीमान् धर्मधुरन्धरः सुखमयः शङ्कातमस्तारकः, कर्मारिकमभेदकः क्षितितले सद्द्बोधबीजाकरः । स्याद्वादामृतसिन्धुशीत किरणश्चारित्रचूडामणिः; श्रीमद् बुद्धिपयोधिसूरिलविता वास्तंगतः संमतः ॥ १ ॥ वक्ता वादिगणेषु वादविरतः सत्याञ्चितान्तः क्रियोवैराग्यैकरसार्द्र मानसवरः सर्वार्थसिद्धिप्रदः । सर्वापत्तिनिवारकोमुनिवरः संप्रार्थितः सर्वदः, श्रीमान् बुद्धिपयोधिसूरिसविता कास्तंगतः संमतः ॥ २ ॥ अध्यात्मविदां सदैव विदितः सद्ध्यानमेरुश्रितोभक्तानामभयङ्करः शिवकरः सर्वापदां वारकः । नानादर्शनदीक्षितः क्षितिभुजां मौलीकृतोऽकामतः, श्रीमान् बुद्धिपयोधिसूरिसविता कास्तंगतः संयतः ॥३॥ दुर्देवस्य विलासपपनिखिल प्रोज्जृम्भितो भूतले, मन्ये सद्गुरुपुङ्गवस्य विरहः स्यादन्यथा मे कुतः; योगानन्द विलासलासितमनाः सिद्धिश्रिया सेवितः, श्रीमान् बुद्धिपयोधिसूरिसविता काऽस्तंगतः संयतः ॥ ४ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 499 500 501 502 503 504 505 506 507