________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ४३१ )
यत्पादपङ्कज रतिः शुभदा नराणां, सूरीशबुद्धिजलधिः स्वगतिं प्रयातः ॥ ७ ॥
हे सद्गुरो ? मतिसुधाकर ? तावकीनं, पादारविन्दमतुलं सततं स्मरामि; नान्यन्मदीयशरणं कलयामि सूरे ?
संसारतारक ? विभो ? भवपारगामिन् ॥ ८ ॥
श्रीमद्योगनिष्ठसद्गुरु श्रीबुद्धिसागरसूरीश्वर - विरहाष्टकम् ॥
शार्दूलविक्रीडितम् ।
श्रीमान् धर्मधुरन्धरः सुखमयः शङ्कातमस्तारकः, कर्मारिकमभेदकः क्षितितले सद्द्बोधबीजाकरः । स्याद्वादामृतसिन्धुशीत किरणश्चारित्रचूडामणिः;
श्रीमद् बुद्धिपयोधिसूरिलविता वास्तंगतः संमतः ॥ १ ॥ वक्ता वादिगणेषु वादविरतः सत्याञ्चितान्तः क्रियोवैराग्यैकरसार्द्र मानसवरः सर्वार्थसिद्धिप्रदः । सर्वापत्तिनिवारकोमुनिवरः संप्रार्थितः सर्वदः,
श्रीमान् बुद्धिपयोधिसूरिसविता कास्तंगतः संमतः ॥ २ ॥ अध्यात्मविदां सदैव विदितः सद्ध्यानमेरुश्रितोभक्तानामभयङ्करः शिवकरः सर्वापदां वारकः । नानादर्शनदीक्षितः क्षितिभुजां मौलीकृतोऽकामतः,
श्रीमान् बुद्धिपयोधिसूरिसविता कास्तंगतः संयतः ॥३॥ दुर्देवस्य विलासपपनिखिल प्रोज्जृम्भितो भूतले,
मन्ये सद्गुरुपुङ्गवस्य विरहः स्यादन्यथा मे कुतः; योगानन्द विलासलासितमनाः सिद्धिश्रिया सेवितः,
श्रीमान् बुद्धिपयोधिसूरिसविता काऽस्तंगतः संयतः ॥ ४ ॥
For Private And Personal Use Only