________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
( ४३२ )
यस्यानन्तगुणानुवादकरणे नो शक्तिमान् वाक्पतिर्यगाम्भीर्यमगाधमुन्नतधियां नैव स्फुरेन्मानसे; तच्चार्थप्रतिबोधभासुरगिरां यः संशयोच्छेदकः, श्रीमान् बुद्धिपयोधिसूरिसविता सोऽस्तंगतः संयतः ॥५६॥
Acharya Shri Kailassagarsuri Gyanmandir
श्रीमद्भारतभूमिभूषणमलं मोहान्धकारापहः,
श्रीमद्वौतमसम्पदां कुलगृहं हन्ताऽऽपदां लौकिकीम् श्रीयोगीन्द्र इलाधिराजमहितः शिष्टक्रियाकर्मठ:
श्रीमान् बुद्धिपयोधिसूरिसविता काऽस्तंगतः संयतः ॥ ६॥ ग्रन्थान् यः कृतवान् शतं सुललितानष्टोत्तरं भासुरान्, तत्वार्थ प्रचुराँश्चराचरहिते नित्योद्यमी संयमी । सोऽयं भास्वरकान्तिमान्प्रकटयन्निर्वृत्तिमार्गक्रम,
श्रीमान् बुद्धिपयोधिसूरिसविता काऽस्तंगतः संयतः ॥७॥ लोकानामुपकारकारकगुरो ! सर्वत्र कीर्त्तिस्तव,
त्रैलोक्यां विलसत्यखण्डितगुणा संदर्शनं दीयताम् । निर्मूल्यात्मसमाधिना रिपुगणं स्वानन्दसौधस्थितः, श्रीमान् बुद्धिपयोधिसूरि सविता काऽस्तंगतः संयतः ॥८॥
गुरुगुण गीतम्.
कव्वाली.
>
महानन्दं निरानन्दं, निराकारं निराबाधम् । सुखाकारं चिदानन्दं, पदं शुद्धं सदाभीष्टम् । क्रियाकाण्डं समभ्यस्तं तपस्तप्तं त्रिधा गुप्तम् ।
>
नरामरनाथसंभुक्तं पदं मनसाऽपि नो क्लृप्तम्; प्रभो ? बुद्धिसुधासिन्धो ? स्मरामि त्वत्पदाम्भोजम्.
For Private And Personal Use Only
॥१॥