Book Title: Kalpsutram
Author(s): Bhadrabahuswami
Publisher: Barsasutra PRakashan Samiti

View full book text
Previous | Next

Page 205
________________ CHOREOGRACHNASHIKARACHAR पर्व तत् । चतुर्दशीदिने चातु-मासिकानि च जज्ञिरे ।। ७५॥ अन्यदा कर्मदोषेण, शिष्याः श्रीकालकप्रभोः। दुर्विनीता अजायन्त, शिक्षाया अप्यगोचराः ॥ ७६।। रात्रौ शय्यातरस्योक्त्वा, परमार्थ विमुच्य तान् । निद्रागतान् प्रचलिताः, स्वयं कनखलं प्रति ॥ ७७ ॥ स्वशिष्यरत्नाकराख्य-मूरिशिष्यस्य सन्निधौ । मरेः सागरचन्द्रस्य, प्रतिबोधितभूपतेः ॥७८॥ युग्मं । क्रमेण तत्र सम्प्राप्ता, न केनाप्युपलक्षिताः। उपाश्रयस्यैककोणं, समाश्रित्यावतस्थिरे ॥ ७९ ॥ प्रतिक्रम्यैर्यापथिकी-मुपविश्य क्षणं स्थिताः । अत्रान्तरे सागरेन्दु-रनुयुज्य प्रपारितः॥ ८॥ असहिष्णुर्ज्ञानगर्व, सूरीन् प्रति बभाण सः । आर्य ! कीदृग् व्याचचक्षे ?, मया साध्विति तेऽवदन ॥ ८१॥ ततः पुनर्मदाध्मातः, सागरेन्दुर्बभाण तम् । आर्य ! किश्चिद्विषमार्थ, परिपृच्छ वदामि ते ॥ ८२॥ न किञ्चिद्विषमं जाने, धर्म तद्वार्द्धकोचितम् । व्याचक्ष्व मत्पुर इति, प्रोचुः पौत्रं मुनीश्वराः ॥ ८३ ॥ अनित्यताभावनाद्यं, धर्ममत्यूजितं ततः। व्याचक्षाणे सागरेन्दौ, साक्षेपं प्रभुरब्रवीत् ।। ८४ ॥ प्रत्यक्षाद्यगोचरत्वा-नास्ति धर्मः खपुष्पवत् । मुधा तद्विषयं क्लेश, मूढा अनुभवन्त्यमी ॥८५॥ अन्तः क्षुब्धोऽप्यवष्टम्भ-मालम्ब्योवाच सागरः । अस्त्येव धर्मस्तत्कार्य-सुखादेरुपलम्भतः॥८६॥ युक्तिभिः साधिते धर्मे, मौनं कृत्वा स्थितो विभुः। तथा शिष्या दुविनीताः, सुप्ताः प्रातरजागरुः ॥ ८७॥ गुरूनप्रेक्ष्य तेऽपृच्छन्, शय्यातरमसौ पुनः । निर्भय॑ वचनैस्तीक्ष्णैः, प्राहिणोत्सूरिसन्निधौ ॥ ८८॥ क्रमात्ते तत्र सम्प्राप्ताः, वार्ती विज्ञाय तन्मुखात् । सागरः क्षमयामास, गुरूंस्तैर्मुनिभिस्सह ॥८९॥ वालुकापूरितप्रस्थ-भृतिरेचनपूर्वकम् । पौत्रं तेऽबोधयन ज्ञान-तारतम्यप्ररूपणात् ॥१०॥ अथ व्याख्यां निगोदानां, श्रुत्वा सीमन्धरप्रभोः। शक्रोऽपृच्छडूरतेऽपि, किमेवं वेत्ति ? कोऽप्यमून ॥९१ ॥ व्याचष्टे भारते मर-निगोदानार्यकालकः। इति भाषितवान् वज्र-धरं सीमन्धरप्रभुः ॥९२ ॥ तं वृद्धद्विजरूपेण, गतः शक्रः परीक्षितुम् । पृष्ट्वा निगोदानायुश्च, मुदितः स्तुतवानिति ॥१३॥ दुष्षमारात्रिदीपाय, प्रतीपाय कुतीथिनाम् । अनर्घ्यगुणरत्नौघ-रोहणाय नमोऽस्तु ते ॥९४ ॥ श्रीकालकार्य प्रणिपत्य

Loading...

Page Navigation
1 ... 203 204 205 206