Book Title: Kalpsutra Balavbodh
Author(s): Yatindravijay, Jayantsensuri
Publisher: Raj Rajendra Prakashan Trust
View full book text
________________ (448) श्री कल्पसूत्र-बालावबोध .. अथ प्रशस्तिः सर्वेषु सूत्रेषु वर प्रशस्तिर्यस्यास्ति सर्वेष्वतिमुख्यता च। कल्पद्रुकल्पं मम कल्पसूत्रं, चारित्रकार्ये शुभकृत्सदाऽस्तु।।१।। सौधर्मपट्टे सुपरम्परायां, सूरीश्वरा ये च वरा बभूवुः। वन्दे सदा तान् वरसूत्रदातॄन्, श्री रत्नसूरीन् विदुषो मुनीशान्।।२।। श्रीमत् क्षमादिगुणराशियशः शमाऽऽढ्यो, जातः क्षमागणधरः प्रवराम्ल कर्ता। चित्रालता चरणसेवन तत्पराभूत्, तामप्यहो! हृदि गुरुः स च नो दधार।।३।। देवेन्द्रविजयो वन्द्यः, तच्छिष्यो बहुकीर्तिभाक्। कल्याणविजयस्तस्य, प्रमोदश्च प्रमोदयुक्।।४।। सुधर्मस्वामिनो गच्छे, सन्ति राजेन्द्रसूरयः। , तेनेयं कल्पसूत्रस्य, वार्ता बालावबोधिनी।।५।। कृता सूत्रपदैर्युक्ता, सर्वसारांशसंयुता। सा योगोद्वहनं येन, न कृतं तस्य हेतवे।।६।। अब्दे खवेदनन्दैके (1940), माधवे च सितेतरे। पक्षे दिने द्वितीयायां, मङ्गले लिखिता त्वियम्।।७।। सर्वतन्त्रस्वतन्त्र सकलजैनागमपारदृश्व कलिकालसर्वज्ञकल्प जङ्गमयुगप्रधान परमयोगिराज जगत्पूज्य गुरुदेव श्रीमद् भट्टारक जैनाचार्य श्री विजय राजेन्द्रसूरीश्वरसङ्कलितः 'कल्पसूत्र- बालावबोधः' समाप्तः।
Page Navigation
1 ... 479 480 481 482 483 484