Book Title: Jinanamavali Shakti ManiKosa
Author(s): Padmanabh S Jaini
Publisher: Z_Acharya_Shantisagar_Janma_Shatabdi_Mahotsav_Smruti_Granth_012022.pdf

View full book text
Previous | Next

Page 2
________________ २२४ आ. शांतिसागरजी जन्मशताब्दि स्मृतिग्रंथ ॐ नमः परमात्मने । नमोऽनेकान्ताय ॥ स्वायम्भुवं मह इहोच्छलदच्छमीडे, येनादिदेव भगवानभवत् स्वयम्भूः । ॐ भूर्भुवः प्रभृतिसन्मननैकरूप मात्मप्रमातृपरमात न मातृ मातृ ॥ १ ॥ माताऽसि मानमसि मेयमसीशमासि मानस्य चासिफलमित्यजितासि सर्वम् । नास्येव किञ्चिदुत नासि तथापि किञ्चि दस्येव चिच्चकचकायितचुञ्चुरुच्चैः ॥२॥ एको न भासयति देव ! न भासतेऽस्मि नन्यस्तु भासयति किञ्चन भासते च । तौ द्वौ तु भासयसि शम्भव ! भाससे च विश्वं च भासयसि भा असि भासको न ॥३॥ यद्भाति भाति तदिहाथ च भाति भातिं नाभाति भाति स च भाति नयो न भाति । भाभाति भात्यपि च भाति न भात्यभाति सा चाभिनन्दन विभान्त्यभिनन्दति त्वाम् ॥ ४॥ लोकप्रकाशनपरः सवितुर्यथा यो वस्तुप्रमित्यभिमुखः सहजः प्रकाशः । सोऽयं तवोल्लसति कारकचक्रचर्चा चित्रोऽप्यकच्चु (ब्र्बु) रससप्रसरः सुबुद्धेः ॥५॥ एकं प्रकाशकमुशन्त्यपरं प्रकाश्य मन्यत्प्रकाशकमपीश तथा प्रकाश्यम् । त्वं न प्रकाशक इहासि न च प्रकाश्यः पद्मप्रभ ! स्वयमसि प्रकटः प्रकाशः ॥ ६॥ अन्योन्यमापिबति वाचकवाच्यसद्यत् सत्प्रत्ययस्तदुभयं पिबति प्रसह्य । सत्प्रत्ययस्तदुभयेन न पीयते चेत् पीतः समग्रममृतं भगवान् सुपार्श्वः ।।७।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5