Book Title: Jinanamavali Shakti ManiKosa
Author(s): Padmanabh S Jaini
Publisher: Z_Acharya_Shantisagar_Janma_Shatabdi_Mahotsav_Smruti_Granth_012022.pdf

View full book text
Previous | Next

Page 3
________________ २२५ श्री जिननामावली उन्मज्जतीति परितो विनिमज्जतीति मग्नः प्रसह्य पुनरुत्प्लवते तथापि । अन्तर्निमग्न इति भाति न भाति भाति चन्द्रप्रभस्य विशदश्चितिचन्द्रिकौघः ॥८॥ यस्मिन्नवस्थितिमुपेत्यनवस्थितं तत् तत्स्थः स्वयं सुविधिरप्यनवस्थ एव । देवोऽनवस्थितिमितोऽपि स एव नान्यः सोऽप्यन्य एवमतथाऽपि स एव नान्यः ॥९॥ शून्योऽपि निर्भरभृतोऽसि भृतोऽपि चान्य शून्योऽन्यशून्यविभवोऽप्यसि नैकपूर्णः । त्वं नैकपूर्णमहिमापि सदैक एव कः शीतलेति चरितं तव मातुमीष्टे ? ॥१०॥ नित्योऽपि नाशमुपयासि न यासि नाशं नष्टोऽपि सम्भवमुपैषि पुनः प्रसह्य । जातोऽप्यजात इति तर्कयतां विभासि श्रेयः प्रभोद्भुतनिधान किमेतदीदृक् ॥११॥ सन्नप्यसन्स्फुटमसन्नपि संश्च भासि ___ सन्भांश्च सत्त्वसमवायमितो न भासि । सत्त्वं स्वयं विभव भासि न चासि सत्त्वं सन्मात्रवस्त्वसि गुणोऽसि न वासुपूज्य ॥१२॥ भूतोऽधुना भवसि नैव न वर्तमानो भयो भविष्यसि तथापि भविष्यसि त्वम् । यो वा भविष्यसि स खल्वसि वर्तमानो यो वर्त्तसे विमलदेव स एव भूतः ॥१३॥ एकं प्रपीतविषमा परिमयमेय वैचित्र्यचित्रमनुभूयत एव देव । द्वैतं प्रसाधयदिदं तदनन्तशान्त मद्वैतमेव महयामि महन्महस्ते ॥१४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5