Book Title: Jinanamavali Shakti ManiKosa
Author(s): Padmanabh S Jaini
Publisher: Z_Acharya_Shantisagar_Janma_Shatabdi_Mahotsav_Smruti_Granth_012022.pdf

View full book text
Previous | Next

Page 4
________________ २२६ आ. शांतिसागरजी जन्मशताब्दि स्मृतिग्रंथ सर्वात्मकोऽसि न च जातु परात्मकोऽसि ___ स्वात्मात्मकोऽसि न तवास्त्यपरः स्व आत्मा । आत्मा त्वमस्यऽन्च (?) च धर्मनिरात्मताति (-2) नाच्छिन्नदृक्प्रसररूपतयास्ति सापि ॥१५॥ अन्योन्यवैररसिकाद्भुततत्त्वतन्तु श्यूतस्फुरत्किरणकोरकनिर्भरोऽसि । एकप्रभाभरसुसंभृतशान्तशान्ते ! ___ चित्सत्त्वमात्रमिति भास्यथ च स्वचित्ते ॥१६॥ यान्ति क्षणक्षयमुपाधिवसेन भेद मापद्य चित्रमपि चारचयन्त्यचित्रे । कुन्थो ! स्फुटन्ति घनसंघटितानि नित्यं विज्ञानधातुपरमाणव एव नैव ।।१७|| एकोप्यनेक इति भासि न चास्यनेक एकोऽस्यनेकसमुदायमयः सदैव । नानेकसञ्चयमयोऽस्यऽसि चैक एक स्त्वं चिच्चमत्कृतिमयः परमेश्वराऽर ॥१८॥ निर्दारितोऽपि घटसे घटितोऽपि दारं प्राप्नोषि दारणमितोऽप्यसि निर्विभागः । भागोज्ज्ञितोऽपि परिपूर्तिमुपैषि भाग निर्भाग एव च चिता प्रतिभासि मल्ले॥ १९॥ उत्पाटितोऽपि मुनिसुव्रत रोपितस्त्व ____ मारोपितोऽप्यसि समुद्धृत एव नैव । नित्योल्लसन्निरवधिस्थिरबोधपाद व्यानद्धकृत्स्नभुवनोऽनिसमच्युतोऽसि ॥२०॥ विष्वक् ततोऽपि न ततोऽस्य ततोऽपि नित्य मन्तःकृतत्रिभुवनोऽसि तदंसगोऽसि । लोकैकदेशनिभृतोऽपि नमे त्रिलोकी मा प्लावयस्यमलबोधसुधारसेन ॥२१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5