________________
२२४
आ. शांतिसागरजी जन्मशताब्दि स्मृतिग्रंथ ॐ नमः परमात्मने । नमोऽनेकान्ताय ॥ स्वायम्भुवं मह इहोच्छलदच्छमीडे,
येनादिदेव भगवानभवत् स्वयम्भूः । ॐ भूर्भुवः प्रभृतिसन्मननैकरूप
मात्मप्रमातृपरमात न मातृ मातृ ॥ १ ॥ माताऽसि मानमसि मेयमसीशमासि
मानस्य चासिफलमित्यजितासि सर्वम् । नास्येव किञ्चिदुत नासि तथापि किञ्चि
दस्येव चिच्चकचकायितचुञ्चुरुच्चैः ॥२॥ एको न भासयति देव ! न भासतेऽस्मि
नन्यस्तु भासयति किञ्चन भासते च । तौ द्वौ तु भासयसि शम्भव ! भाससे च
विश्वं च भासयसि भा असि भासको न ॥३॥ यद्भाति भाति तदिहाथ च भाति भातिं
नाभाति भाति स च भाति नयो न भाति । भाभाति भात्यपि च भाति न भात्यभाति
सा चाभिनन्दन विभान्त्यभिनन्दति त्वाम् ॥ ४॥ लोकप्रकाशनपरः सवितुर्यथा यो
वस्तुप्रमित्यभिमुखः सहजः प्रकाशः । सोऽयं तवोल्लसति कारकचक्रचर्चा
चित्रोऽप्यकच्चु (ब्र्बु) रससप्रसरः सुबुद्धेः ॥५॥ एकं प्रकाशकमुशन्त्यपरं प्रकाश्य
मन्यत्प्रकाशकमपीश तथा प्रकाश्यम् । त्वं न प्रकाशक इहासि न च प्रकाश्यः
पद्मप्रभ ! स्वयमसि प्रकटः प्रकाशः ॥ ६॥ अन्योन्यमापिबति वाचकवाच्यसद्यत्
सत्प्रत्ययस्तदुभयं पिबति प्रसह्य । सत्प्रत्ययस्तदुभयेन न पीयते चेत्
पीतः समग्रममृतं भगवान् सुपार्श्वः ।।७।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org