Book Title: Jina Arishtanemi Sambandh Tran Aprakshit Stava
Author(s): Priti Pancholi
Publisher: Z_Nirgrantha_1_022701.pdf and Nirgrantha_2_022702.pdf and Nirgrantha_3_022703.pdf

View full book text
Previous | Next

Page 2
________________ १६६ लिन भरिटनेमि सं.... Nirgrantha (अञ्चलगच्छीय) श्री ऋषिवर्धनसूरिविरचितं श्रीरैवताचलनेमिनाथस्तवम् (वंशस्थवृत्तम्) समुल्लसद्भक्तिसुराः सुरासुरा धिराजपूज्यं जगदंगदंगदम् । हरन्तमीहारहितं हितं हितं नेमि स्तुवे रैवत केतके तके ॥१॥ बिभर्ति यस्य स्तवने वने वने रीसेर संयद्रसना सना सना । सिद्धेर्भवेन्नन्ववरो वरो वरो नेमि स्तुवे रैवत केतके तके ॥२॥ यश: पटस्य प्रभवे भवे भवे भवत्प्रभावप्रगुणा गुणा गुणा: । यस्याति हर्ष सुजनं जनं जनं नेमि स्तुवे रैवत केतके तके ॥३॥ जिगाय खेलस्तरसा रसा रसा तिरेकजाग्रन्मदनं दनं दनं । यो बाहुदण्ड विनयं नयं नयं नेमि स्तुवे रैवत केतके तके ॥४॥ येनाराजीभयतो यतो यतो ऽवगत्य तत्त्वं दुरितारितारिता । स कस्य नेष्टः सदयो दयो दयो नेमि स्तुवे रैवत केतके तके ॥५॥ सुरा अपि प्रोन्नतया तया तया रूपस्य यस्या मुमुहुर्मुहुर्मुहुः । यस्योग्रजानाप्यजनी जनी जनी नेमिं स्तुवे रैवत केतके तके ।।६।। भवे प्रनाभानवमे वमे वमे जहासि तत् किं वदमा दमा दमा ! यस्येति भोज्या सहसा हसा हसा नेमि स्तुवे रैवत केतके तके ॥७॥ वनेऽत्र दीक्षा जगृहे गृहे गृहे। स्थित्वा [च] दत्वा कनकं न के न कम् ? | संतोष्य येना ममता मता मता नेमि स्तुवे रेवत केतके तके ॥८॥ , Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8