Book Title: Jina Arishtanemi Sambandh Tran Aprakshit Stava
Author(s): Priti Pancholi
Publisher: Z_Nirgrantha_1_022701.pdf and Nirgrantha_2_022702.pdf and Nirgrantha_3_022703.pdf

View full book text
Previous | Next

Page 4
________________ ૧૬૮ Nirgrantha जिन रिटनेमि संमत.... (श्री कल्याण कर्तृक ?) श्रीनेमिनाथस्तुति (अनुष्टुभ् छन्दः) श्री नेमिस्वामिनं नौमि जगदीश्वरमव्ययम् । अर्हन्तरिहमाप्तमरोहन्तं निरञ्जनम् ॥१॥ (उपजाति छन्दः) सद्भूतभक्त्या सकलैः सुरेन्द्रैः सदेववृन्दैः परिवन्दिताड्रिम् । जगद्धितोपायमपायमुक्त मव्यक्तमाद्यं मुनिमेनमीडे ॥२॥ मनोरथैर्नाथ ! पर: सहौः , समीहिताया भुवने दुरापा । साऽद्य त्वदीयाङिसरोजसेवा, वाऽऽप्ये मयाऽहो मम भाग्ययोगः ॥३॥ किं कल्पवल्ली यदि वा त्रिलोक्या __ आनन्दसर्वस्वमियं सुधा वा । मूर्तिस्तवाऽसौ वितनोति दृष्ट मात्रैव मे विस्मयमेवमीश ॥४॥ मुहुर्मुहुर्वीक्षणतश्च मन्ये साक्षादसौ ते किल मुक्त्यवस्था । यामीक्षमाणा: शिवशर्ममग्नं सन्तः स्वमत्रापि हि मन्वते यत् ।।५।। त्वमेव शम्भुर्भुवनादिभेदी विभुः स्वयम्भूर्भवभीतिभेत्ता । वेत्ता च वक्ता च सतां हितानां देव ! त्वमेवात्र परो न कश्चित् ॥६॥ विश्वत्रयी वत्सल ! वाञ्छितार्थ प्रदेशनेप्रत्यलमाप्तमेकम् । भीमे भवारण्यपथे भवन्तं, श्रये शरण्यं करुणाम्बुराशे ॥७॥ विष्वग् विषावेगवदुत्तरङ्गा मुहुर्मुहुर्मोह विमूर्छना मे । चैतन्यमन्तस्तिरयन्ति तात ! कुतो हताशोऽस्मि भवत्यपीशो ॥८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8