________________
१६६
लिन भरिटनेमि सं....
Nirgrantha (अञ्चलगच्छीय) श्री ऋषिवर्धनसूरिविरचितं श्रीरैवताचलनेमिनाथस्तवम्
(वंशस्थवृत्तम्) समुल्लसद्भक्तिसुराः सुरासुरा
धिराजपूज्यं जगदंगदंगदम् । हरन्तमीहारहितं हितं हितं
नेमि स्तुवे रैवत केतके तके ॥१॥ बिभर्ति यस्य स्तवने वने वने
रीसेर संयद्रसना सना सना । सिद्धेर्भवेन्नन्ववरो वरो वरो
नेमि स्तुवे रैवत केतके तके ॥२॥ यश: पटस्य प्रभवे भवे भवे
भवत्प्रभावप्रगुणा गुणा गुणा: । यस्याति हर्ष सुजनं जनं जनं
नेमि स्तुवे रैवत केतके तके ॥३॥ जिगाय खेलस्तरसा रसा रसा
तिरेकजाग्रन्मदनं दनं दनं । यो बाहुदण्ड विनयं नयं नयं
नेमि स्तुवे रैवत केतके तके ॥४॥ येनाराजीभयतो यतो यतो
ऽवगत्य तत्त्वं दुरितारितारिता । स कस्य नेष्टः सदयो दयो दयो
नेमि स्तुवे रैवत केतके तके ॥५॥ सुरा अपि प्रोन्नतया तया तया
रूपस्य यस्या मुमुहुर्मुहुर्मुहुः । यस्योग्रजानाप्यजनी जनी जनी
नेमिं स्तुवे रैवत केतके तके ।।६।। भवे प्रनाभानवमे वमे वमे
जहासि तत् किं वदमा दमा दमा ! यस्येति भोज्या सहसा हसा हसा
नेमि स्तुवे रैवत केतके तके ॥७॥ वनेऽत्र दीक्षा जगृहे गृहे गृहे।
स्थित्वा [च] दत्वा कनकं न के न कम् ? | संतोष्य येना ममता मता मता नेमि स्तुवे रेवत केतके तके ॥८॥ ,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org