Book Title: Jesalmer ke Prachin Jain Granthbhandaron ki Suchi
Author(s): Jambuvijay
Publisher: Motilal Banarasidas

View full book text
Previous | Next

Page 32
________________ 18- प्रस्तावना - संस्कृत प्रस्तावना प्रति श्रद्धावन्तश्चाभूवत्रित्याद्यपि परिशिष्टलेखदर्शनेन स्फुटमवगम्यते इत्यतः पुस्तकानां संरक्षणे तत् स्थान निरुपद्रवं निरूप्य विचक्षणोऽयं जिनभद्रसूरिः सारभूतं स्वपुस्तककलापं गूर्जरधरायास्तत्र नीतवानित्यनुमानं न निर्विचारम् । तथा च सप्तदशशताब्दीभवेर्गुणविनयगणि-समयसुन्दरादिभिरप्यस्य सूरिवर्वस्य ज्ञानकोशलेखनदक्षत्व-भाण्डागारपोषकत्वादिगुणोऽस्मारि, जेसलमेरुस्थस्यास्य भाण्डागारस्यापि च स्मरणमकारि । स्थाने स्थाने ज्ञानकोशान् कारयितुरस्य सरिवर्यस्य जन्म सं. १४५० वर्षे, दीक्षा सं. १४६१ वर्षे, सूरिपदं सं. १४७५ वर्षे, स्वर्गमनं च सं. १५१४ (५) वर्षे समजनि । अनेन दीक्षा खरतरगच्छीयजिनराजसूरिपाचे जगृहे । विद्याध्ययनं तु वाचकशीलचन्द्रगणिपावेऽकारि (ख.)। सूरिवर्यस्यास्य विद्वत्ता-सञ्चरित्रता-जिनमन्दिर-जिनबिम्ब-ज्ञानकोशप्रतिष्ठाकृत्त्व-व्याख्यातृत्व-राजमान्यत्वादिगुणानां वर्णनमत्र (परि. ३) विहितमिति नेह पुनः प्रतन्यते । अनेन. सूरिणा सूरिपदानन्तरं यावज्जीवं सं. १५१५ वर्षपर्यन्तं प्रतिष्ठितानि प्रभूतानि जैनबिम्बानि लेखितानि च पुस्तकानि यत्र तत्र प्रेक्षणपथपान्धीभवन्ति । सं. १५१८ वर्षे ऊकेशवंशीयेन केनचित् कारिताऽस्य सूरेः प्रतिमा नगरपामे जैनमन्दिरभूमिगृहे स्थापिता वर्तते (भावनगरप्राचीनशोधसङ्ग्रहभा० १, पृ.७१) । सं. १५२४ वर्षे जिनचन्द्रसूरेगच्छाधिपत्ये तदादेशात् कमलसंयमोपाध्यायेन प्रतिष्ठिते जिनभद्रसूरिपादुके वैभारगिरी (राजगृहे) च विद्येते (जैनलेखसङ्ग्रहले. २५७) । येन कमलसंयमेन सं. १४७६ वर्षे जिनभद्रसूरिपाचँ दीक्षाऽग्राहि, सं. १५४४ वर्षे १. श्रीज्ञानकोशलेखनदक्षा जिनभद्रसूरयो मुख्याः । तत्पहे सञ्जातास्ततोऽधुतन् दिव्यगुणजाताः ।। - सम्बोधसप्ततिवृत्तिप्र. अणहिल्लापत्तन-जेसलमेरुस्थितसमयकोशवीक्षायाः ।। समवसितगोप्यगम्भीरभावश्रुतनिकरसञ्चाराः ।। - विचाररत्नसङ्ग्रहः २३ । ३९० २. श्रीमोसलमेरुदुर्गनगरे जाबालों तथा श्रीमदेवगिरी तथा महिपुरे श्रीपत्तने पत्तने । भाण्डागारमबीपर बरतरेनानाविधेः पुस्तकेः स श्रीमजिनभद्रसूरिसुगुरुभाग्याद्भुतोऽभूद् भुवि ।। -अष्टलक्षी PR४ । ७२, ३. स्थाने स्थाने स्थापितसारज्ञानभाण्डागारश्रीजिनभद्रसूरि- पत्तनीयवाडीपार्धनावमन्दिरप्रशस्तिः (एपिग्राफिआ इण्डिका १३७) स्थाने स्थाने पुस्तकभाण्डागारस्थापकाः श्रीजिनभद्रसूरवः । स.. ४. कीर्तिः श्रीजिनभद्रसूरिसगरोः सिद्धान्तकन्दोद्भवा व्याख्यानालबती जनोन्नतिदला..... विचदहव्या विसिनीव भव्यमधुपैः सौभाग्यसोगन्थ्यभाग भाग्यादित्यमहोदयाद् विजयते नित्यप्रबुद्धाऽमृतम् ।। षट्-समाम्युनिधि-क्षपाकरमिते संवत्सरे वैक्रमे तैरस्मि स्वकोण मोहजलधिपोतं व्रतं ग्राहितः । शान वा परमेष्ठिपक्षकनमस्कारागर्म पाठितो वात्सल्यं कथयामि वा कियदहं यत् प्रत्यहं तैः कृतम् ।। -उत्तरा. व.प्र. ५. अम्मोधि-वारिनिधि-याण-शशाङ्कवर्षे श्री उत्तराध्ययनवृत्तिमिमां चकार । । जेसलमेरो दुर्ग विजयदशम्यां समर्थिता सेयम् । श्रीजिनभद्रमुनीश्वरचरणस्मरणप्रसादेन ।। उत्तरा.कृ.प्रशस्ति. जेसलमेरुदुर्ग सर्वार्थसिद्धिसंज्ञिकोत्तराध्ययनसूत्रवृत्तिश्च विनिर्ममे । सं. १४८४ वर्षे पत्तनस्थमेनं जिनभद्रसूरिं| प्रति जयसागरोपाध्यायः सिन्धुदेशान्तर्गतमल्लिकवाहणपुराद विद्वत्तापरिपूर्णा विज्ञमित्रिवेणिं प्रहितवान, यस्मा उपाध्यायपदं जिनभद्रसूरिणा व्यतारि (पृ. ५७) । सं. १४९५ वर्षे जयसागरोपाध्यायविहिता सन्देहदोलावलिवृत्तिश्चेतेन व्यशोधि, स्वयं च जिनसप्ततिसंज्ञकं प्रकरणं प्राणायि । सं. १४८७ वर्षे जेसलमेरो जन्मभाक्, सं. १५३० वर्षे तत्रैव स्वर्गामी जिनचन्द्रसूरिरस्य पट्टधर आसीत् (ख.) सं. १५१८ वर्षे यत्प्रतिष्ठितानां तीर्थपट्टिकानां लेखा अत्र प्रोद्धृताः (परि० १४,१५,१६,१७,१८) । सं. १५१२-१९ वर्षे पुष्पमालावृत्ति, (पृ.५८)-चरित्रपञ्चकवृत्तिविधातुः साधुसोमगणिनो गुरुग्र्यासदीनसाहिसभायां वादिविजेता सिद्धान्तरुच्युपाध्यायोऽप्यस्य जिनभद्रसूरेः शिष्य आसीत् । भावप्रभाचार्य-कीर्तिरत्राचार्यादीनयं जिनभद्रसूरिः सूरिपदेऽस्थापयत् (ख.) । अष्टादश विद्वांसोऽस्य शिष्या आसन् । सं. १५३६ वर्षे जेसलमेरुदुर्गे देवकर्णराज्येऽष्टापदप्रासादप्रतिष्ठाकारको जिनचन्द्रसूरेः शिष्यः (परि०५) जिनसमुद्रसूरिजिनभद्रसूरेः प्रशिष्य आसीत् । परमहंससम्बोधचरित्रकारो नयरङ्गो जिनभद्रसूरेः सन्तानीयः (पृ. ५७) । महेश्वरकवि कविवरमण्डनचरिते, धनदा निजनिर्मिते नीतिशतके स्वसमकालीनजिनभद्रसूरेर्गुणानवर्णयत् ।। एवं पुस्तकलेखन-सङ्ग्रहार्थमुपदिश्य भाण्डागारं बिभ्रता जिनभद्रसूरिमहाशयेन, तदुपदेशमनुसृत्य निजद्रव्यव्ययेन पुस्तकानि लेखयित्वा संगृह्य च समर्पयित्रा धरणाऽऽदिगृहस्थगणेन च साहित्यसमुपासकानां १. जलधि-वस भवन-सङ्ख्ये वर्ष माघे सितष्टमीदिवसे । रविसुतवारे रुधिरे समर्थितोऽयं महालेखः ।। -विज्ञप्तित्रिवेणिप्र. २. विक्रमतः पञ्चनवत्यधिकचतुर्दशशतेषु वर्षेषु । प्रथितेयं श्लोकैरिह पञ्चदश शतानि सार्धानि ।। -सन्देहदोलावलीवृत्तिः ३. जैनेन्द्रागमतत्त्ववेदिभिरभिप्रेतार्थकल्पटुभिः । सद्धिः श्रीजिनभद्रसूरिभिरियं वृत्तिविशुद्धीकृता ।। -सन्देहदोलावलीवृत्तिः ४. गणहरसुहम्मवंसे कमेण जिणरायसूरिसीसेहिं । पपरणमिणं हियटुं रइयं जिणभासूरीहिं ।। - जिनसप्ततिप्रकरणम् ५. श्रीखरतरगच्छेशश्रीमजिनभद्रसूरिशिष्याणाम् । जीरापानीपाश्वप्रभूलब्धवरप्रसादानाम् ।। श्रीग्यासदीनसाहेमहासभालभवादिविजयानाम् । श्रीसिद्धान्तरुचिमहोपाध्यायानो विनेयेन ।। साधुसोमगणीशेनाकेशेनार्थप्रबोधिनी । श्रीवीरचरिते चक्रे वृत्तिचित्तप्रमोदिनी ।। चावी चरित्रपाकवृत्तिर्विहिता नवैकतिचिवर्षे । हर्षेण महर्षिगणे: प्रवाध्यमाना धिरं जयतु ।। -जिनवाभीषमहावीरचरितवृत्तिः ६. तस्य अष्टादश शिष्याः श्रीसिद्धान्तरुचिपाठक-श्रीकमलसंयमोपाध्यायादयो विद्वांसः । • पट्टावली (विनयवाभीया) ७. चिन्तामणिः सम्प्रति भक्तिभाजी तपस्यया त्रासितदेवनाथः । दयोदयः प्रीणितसर्वलोकः सिद्धो गरीयाञ्जिनभद्रसूरिः ।। -धनदनीतिशतकम् (श्लो.९४) ८. जयत्यतः श्रीजिनभद्रसूरिः श्रीमालवंशोद्भवदत्तमानः । गम्भीरचारुश्रुतराजमानस्तीर्थाटनैः सन्ततपूतमूर्तिः ।। -काव्यमनोहरम् (सर्ग ७. लो.३५) Jain Education International For Private &Personal use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 ... 665