________________
18- प्रस्तावना - संस्कृत प्रस्तावना
प्रति श्रद्धावन्तश्चाभूवत्रित्याद्यपि परिशिष्टलेखदर्शनेन स्फुटमवगम्यते इत्यतः पुस्तकानां संरक्षणे तत् स्थान निरुपद्रवं निरूप्य विचक्षणोऽयं जिनभद्रसूरिः सारभूतं स्वपुस्तककलापं गूर्जरधरायास्तत्र नीतवानित्यनुमानं न निर्विचारम् । तथा च सप्तदशशताब्दीभवेर्गुणविनयगणि-समयसुन्दरादिभिरप्यस्य सूरिवर्वस्य ज्ञानकोशलेखनदक्षत्व-भाण्डागारपोषकत्वादिगुणोऽस्मारि, जेसलमेरुस्थस्यास्य भाण्डागारस्यापि च स्मरणमकारि । स्थाने स्थाने ज्ञानकोशान् कारयितुरस्य सरिवर्यस्य जन्म सं. १४५० वर्षे, दीक्षा सं. १४६१ वर्षे, सूरिपदं सं. १४७५ वर्षे, स्वर्गमनं च सं. १५१४ (५) वर्षे समजनि । अनेन दीक्षा खरतरगच्छीयजिनराजसूरिपाचे जगृहे । विद्याध्ययनं तु वाचकशीलचन्द्रगणिपावेऽकारि (ख.)। सूरिवर्यस्यास्य विद्वत्ता-सञ्चरित्रता-जिनमन्दिर-जिनबिम्ब-ज्ञानकोशप्रतिष्ठाकृत्त्व-व्याख्यातृत्व-राजमान्यत्वादिगुणानां वर्णनमत्र (परि. ३) विहितमिति नेह पुनः प्रतन्यते । अनेन. सूरिणा सूरिपदानन्तरं यावज्जीवं सं. १५१५ वर्षपर्यन्तं प्रतिष्ठितानि प्रभूतानि जैनबिम्बानि लेखितानि च पुस्तकानि यत्र तत्र प्रेक्षणपथपान्धीभवन्ति । सं. १५१८ वर्षे ऊकेशवंशीयेन केनचित् कारिताऽस्य सूरेः प्रतिमा नगरपामे जैनमन्दिरभूमिगृहे स्थापिता वर्तते (भावनगरप्राचीनशोधसङ्ग्रहभा० १, पृ.७१) । सं. १५२४ वर्षे जिनचन्द्रसूरेगच्छाधिपत्ये तदादेशात् कमलसंयमोपाध्यायेन प्रतिष्ठिते जिनभद्रसूरिपादुके वैभारगिरी (राजगृहे) च विद्येते (जैनलेखसङ्ग्रहले. २५७) । येन कमलसंयमेन सं. १४७६ वर्षे जिनभद्रसूरिपाचँ दीक्षाऽग्राहि, सं. १५४४ वर्षे १. श्रीज्ञानकोशलेखनदक्षा जिनभद्रसूरयो मुख्याः ।
तत्पहे सञ्जातास्ततोऽधुतन् दिव्यगुणजाताः ।। - सम्बोधसप्ततिवृत्तिप्र. अणहिल्लापत्तन-जेसलमेरुस्थितसमयकोशवीक्षायाः ।। समवसितगोप्यगम्भीरभावश्रुतनिकरसञ्चाराः ।। - विचाररत्नसङ्ग्रहः २३ । ३९० २. श्रीमोसलमेरुदुर्गनगरे जाबालों तथा श्रीमदेवगिरी तथा महिपुरे श्रीपत्तने पत्तने ।
भाण्डागारमबीपर बरतरेनानाविधेः पुस्तकेः स श्रीमजिनभद्रसूरिसुगुरुभाग्याद्भुतोऽभूद् भुवि ।। -अष्टलक्षी PR४ । ७२, ३. स्थाने स्थाने स्थापितसारज्ञानभाण्डागारश्रीजिनभद्रसूरि- पत्तनीयवाडीपार्धनावमन्दिरप्रशस्तिः (एपिग्राफिआ इण्डिका १३७)
स्थाने स्थाने पुस्तकभाण्डागारस्थापकाः श्रीजिनभद्रसूरवः । स.. ४. कीर्तिः श्रीजिनभद्रसूरिसगरोः सिद्धान्तकन्दोद्भवा व्याख्यानालबती जनोन्नतिदला..... विचदहव्या विसिनीव भव्यमधुपैः सौभाग्यसोगन्थ्यभाग भाग्यादित्यमहोदयाद् विजयते नित्यप्रबुद्धाऽमृतम् ।। षट्-समाम्युनिधि-क्षपाकरमिते संवत्सरे वैक्रमे तैरस्मि स्वकोण मोहजलधिपोतं व्रतं ग्राहितः ।
शान वा परमेष्ठिपक्षकनमस्कारागर्म पाठितो वात्सल्यं कथयामि वा कियदहं यत् प्रत्यहं तैः कृतम् ।। -उत्तरा. व.प्र. ५. अम्मोधि-वारिनिधि-याण-शशाङ्कवर्षे श्री उत्तराध्ययनवृत्तिमिमां चकार । ।
जेसलमेरो दुर्ग विजयदशम्यां समर्थिता सेयम् । श्रीजिनभद्रमुनीश्वरचरणस्मरणप्रसादेन ।। उत्तरा.कृ.प्रशस्ति.
जेसलमेरुदुर्ग सर्वार्थसिद्धिसंज्ञिकोत्तराध्ययनसूत्रवृत्तिश्च विनिर्ममे । सं. १४८४ वर्षे पत्तनस्थमेनं जिनभद्रसूरिं| प्रति जयसागरोपाध्यायः सिन्धुदेशान्तर्गतमल्लिकवाहणपुराद विद्वत्तापरिपूर्णा विज्ञमित्रिवेणिं प्रहितवान, यस्मा उपाध्यायपदं जिनभद्रसूरिणा व्यतारि (पृ. ५७) । सं. १४९५ वर्षे जयसागरोपाध्यायविहिता सन्देहदोलावलिवृत्तिश्चेतेन व्यशोधि, स्वयं च जिनसप्ततिसंज्ञकं प्रकरणं प्राणायि । सं. १४८७ वर्षे जेसलमेरो जन्मभाक्, सं. १५३० वर्षे तत्रैव स्वर्गामी जिनचन्द्रसूरिरस्य पट्टधर आसीत् (ख.) सं. १५१८ वर्षे यत्प्रतिष्ठितानां तीर्थपट्टिकानां लेखा अत्र प्रोद्धृताः (परि० १४,१५,१६,१७,१८) । सं. १५१२-१९ वर्षे पुष्पमालावृत्ति, (पृ.५८)-चरित्रपञ्चकवृत्तिविधातुः साधुसोमगणिनो गुरुग्र्यासदीनसाहिसभायां वादिविजेता सिद्धान्तरुच्युपाध्यायोऽप्यस्य जिनभद्रसूरेः शिष्य आसीत् । भावप्रभाचार्य-कीर्तिरत्राचार्यादीनयं जिनभद्रसूरिः सूरिपदेऽस्थापयत् (ख.) । अष्टादश विद्वांसोऽस्य शिष्या आसन् । सं. १५३६ वर्षे जेसलमेरुदुर्गे देवकर्णराज्येऽष्टापदप्रासादप्रतिष्ठाकारको जिनचन्द्रसूरेः शिष्यः (परि०५) जिनसमुद्रसूरिजिनभद्रसूरेः प्रशिष्य आसीत् । परमहंससम्बोधचरित्रकारो नयरङ्गो जिनभद्रसूरेः सन्तानीयः (पृ. ५७) । महेश्वरकवि कविवरमण्डनचरिते, धनदा निजनिर्मिते नीतिशतके स्वसमकालीनजिनभद्रसूरेर्गुणानवर्णयत् ।।
एवं पुस्तकलेखन-सङ्ग्रहार्थमुपदिश्य भाण्डागारं बिभ्रता जिनभद्रसूरिमहाशयेन, तदुपदेशमनुसृत्य निजद्रव्यव्ययेन पुस्तकानि लेखयित्वा संगृह्य च समर्पयित्रा धरणाऽऽदिगृहस्थगणेन च साहित्यसमुपासकानां १. जलधि-वस भवन-सङ्ख्ये वर्ष माघे सितष्टमीदिवसे । रविसुतवारे रुधिरे समर्थितोऽयं महालेखः ।। -विज्ञप्तित्रिवेणिप्र. २. विक्रमतः पञ्चनवत्यधिकचतुर्दशशतेषु वर्षेषु । प्रथितेयं श्लोकैरिह पञ्चदश शतानि सार्धानि ।। -सन्देहदोलावलीवृत्तिः ३. जैनेन्द्रागमतत्त्ववेदिभिरभिप्रेतार्थकल्पटुभिः । सद्धिः श्रीजिनभद्रसूरिभिरियं वृत्तिविशुद्धीकृता ।। -सन्देहदोलावलीवृत्तिः ४. गणहरसुहम्मवंसे कमेण जिणरायसूरिसीसेहिं । पपरणमिणं हियटुं रइयं जिणभासूरीहिं ।। - जिनसप्ततिप्रकरणम् ५. श्रीखरतरगच्छेशश्रीमजिनभद्रसूरिशिष्याणाम् । जीरापानीपाश्वप्रभूलब्धवरप्रसादानाम् ।।
श्रीग्यासदीनसाहेमहासभालभवादिविजयानाम् । श्रीसिद्धान्तरुचिमहोपाध्यायानो विनेयेन ।। साधुसोमगणीशेनाकेशेनार्थप्रबोधिनी । श्रीवीरचरिते चक्रे वृत्तिचित्तप्रमोदिनी ।।
चावी चरित्रपाकवृत्तिर्विहिता नवैकतिचिवर्षे । हर्षेण महर्षिगणे: प्रवाध्यमाना धिरं जयतु ।। -जिनवाभीषमहावीरचरितवृत्तिः ६. तस्य अष्टादश शिष्याः श्रीसिद्धान्तरुचिपाठक-श्रीकमलसंयमोपाध्यायादयो विद्वांसः । • पट्टावली (विनयवाभीया) ७. चिन्तामणिः सम्प्रति भक्तिभाजी तपस्यया त्रासितदेवनाथः ।
दयोदयः प्रीणितसर्वलोकः सिद्धो गरीयाञ्जिनभद्रसूरिः ।। -धनदनीतिशतकम् (श्लो.९४) ८. जयत्यतः श्रीजिनभद्रसूरिः श्रीमालवंशोद्भवदत्तमानः ।
गम्भीरचारुश्रुतराजमानस्तीर्थाटनैः सन्ततपूतमूर्तिः ।। -काव्यमनोहरम् (सर्ग ७. लो.३५)
Jain Education International
For Private &Personal use Only
www.jainelibrary.org