________________
प्रस्तावना-संस्कृत प्रस्तावना-17
बृहदाण्डागारः । अस्यैवात्र प्राधान्यम्, प्राचीनपुस्तकगवेषिणः साक्षरा अस्येव दर्शनार्थ समत्कण्ठन्ते । दुर्गमोऽपि स मरुदेशप्रदेश एतत्सौरभेणेवाकर्षति प्राज्ञमधुपान् । पूर्व डो. बूल्हरमहाशयेन १८७४ तमे ख्रिस्ताब्देऽस्य दर्शनं व्यधायि, तदा तेन ततो नवतिवर्षप्राचीनाऽस्य द्वाविंशत्यधिकचतुःशतीपुस्तकानां संक्षिप्ता टिप्पनिका व्यलोकि, सं. ११६० वर्षीयं तालपत्रपुस्तकं च प्राचीनतमत्वेन प्राबोधि (GowSH पृ. ११७) । तदनन्तरं १९०४-५, ख्रिस्ताब्दे ही. हं. जैनपण्डितेन स्वसूचिपत्रे, तदवलम्ब्य श्री. भाण्डारकरेण च निजे पुस्तके (रि०२, पृ० १४) ततोऽपि प्राचीनानि सं. ९२४,१००५,११२०,११२७,११३९,११४४,११५५ तमवर्षेषु लिखितानि तालपत्रपुस्तकानि सूचितानि । किन्त्वेषु केवलं सं. ११३९ वर्षीयं विहायान्यदेकमपि विश्वस्तवर्षसङ्घचाकं न प्रतिभाति । एतत्सूचिपत्रानुसारेण तु ३-४-२७ पृष्ठेषु दर्शितानि सं. १११-(2), सं. ११३०, सं. ११३९ वर्षेषु लिखितानि क्रमेण भगवतीसूत्र-तिलकमञ्जरी-कुवलयमालाऽऽख्यानि पुस्तकानि प्राचीनतमानि प्रतिभान्ति । १५०(१) क्रमाके दर्शितं सं. १११५ वषीय तु शङ्कितं भाति ।
सर्वेष्वपि ताडपत्रेष्वर्वाचीनं सं. १४९३ वर्षे लिखितं सर्वसिद्धान्तविषमपदपर्यायसंज्ञक पुस्तकमत्र विलोक्यते (पृ.२३) इत्यतः सं. १४५८ वर्षीय कुमारपालप्रतिबोधनामकं ताडपत्रपुस्तकमुद्दिश्य तत्प्रस्तावकेन 'प्रायस्ताडपत्रात्मकेषु पुस्तकसमूहेषु इदं पुस्तकमपश्चिमं प्रतिभात्यस्माकम् । यतः, एतस्मात् पुस्तकादर्वाचीनं नान्यत् पुस्तकमस्माकं दृष्टिपथमायातं कर्णगोचरीभूतं वा कुत्रापि जेनग्रन्थागारे ।' (कुछ प्रस्ता०) विहितोऽयमुझेखो निरस्तो भवति ।
जेसलमेरुस्थापना सं. १२१५ वर्षे जेसलनृपाजातेति राजस्थानादीतिवृत्तवेदिनां प्रायः सुविदितमेव। ततोऽपि प्राचीनलेखनकालानि प्रभूतानि पुस्तकान्यत्र प्रेक्ष्यन्ते । येषु लेखनस्थल निर्दिष्टं विलोक्यते, तेषु क्वापि जेसलमेरुनाम नोपलभ्यते; नवरं जेसलमेरुदुर्गे रचितानि त्रीणि पुस्तकान्यत्रावलोक्यन्ते । तेषु प्रथमं तावत् पूर्णभद्रगणिना सं. १२८५ वर्षे रचितं धन्य-शालिभद्रचरित तालपत्रीयम्, द्वितीय गुणसमृद्धिमहत्तरया सं. १४०७ वर्षे विरचितमञ्जणासुन्दरीचरियम्, तृतीयं तु पुण्यसागरोपाध्यायेन सं.
१६४५ वर्षे विहिताया जम्बूद्वीपप्रज्ञप्तिवृत्तेः पुस्तकम् ।
खरतरगच्छीयजिनराजसरिशिष्यस्य जिनभद्रसूरेरुपदेशात् स्तम्भतीर्थ परीक्षिगूजरपुत्रधरणादिसुश्रावके: सं. १४८५ तमवर्षादारभ्य सं. १४९३ तमवर्षपर्यन्तं लेखिताना तालपत्रपुस्तकानामत्र भाण्डागारे प्राचुर्य वर्तते । तेषामन्तिमो लेख: प्रायः सदृशोऽतः क्वचित् क्वचिद् दलालेनाय संक्षिप्तो दृश्यते (पृ.१८,१९,३३,३४,३६) । सं. १४९७ वर्षे जिनभद्रसूरिणा प्रतिष्ठितस्य सम्भवजिनालयस्यैकस्मिन् प्रदेशेऽयं भाण्डागारो वर्तते । अनेन सूरिवर्येण सम्भवजिनालयप्रतिष्ठायाः प्रागणहिल्लपाटकपुरादिषु विधिपक्ष(खरतरगच्छ) श्राद्धसङ्थेन ज्ञानरत्रकोशा अकार्यन्त (परि. ३) इत्यादिनाऽयमपि बृहद्धाण्डगारोऽस्यैव सूरिवर्यस्य सदुपदेशाद् वैक्रमवत्सरपञ्चदशशतकप्रान्ते स्थापितः सम्भाव्यते । स्तम्भतीर्थाणहिलपाटकादिस्थानेषु लेखितानि सङ्गहीतानि च तालपत्रीयादिविविधपुस्तकानि तदानीं कुतोऽपि कारणवशात् तत्र नीतानि, पाश्चात्यैश्च तदनुयायिभिवृद्धि नीतानीत्यनुमीयते । पुस्तकसंग्रहस्य तत्र नयने मुख्य कारणं तु म्लेच्छनृपाणामाक्रमणरूपं तय॑ते; यतोऽत्याचारिभिरनेकैस्तैर्नृपापसदैरसकृदत्याहितमिति जनप्रसिद्धम् । जेसलमेरुदुर्गस्तु बलवद्भिरपि म्लेच्छावनीपैह आसीत् (परि. ३, श्लो. ५)। जेसलमेरुस्थापनाया अनन्तरमचिरेणेव तत्र धनाढ्या जैनगृहस्था विशेषतच खरतरगच्छानुयायिनो न्यवसन, यैस्तत्र जिनालयजिनपतिगुरुस्तूपाद्यपि चक्रे (दशश्रावकचरितप्रशस्तिः, प्रा. लेखसङ्ग्रहः २। ४४७) । जेसलमेरुपुरीयो लक्ष्मणनृपो जिनराजसूरिनिदेशात् सं. १४५९ वर्षे पाजिनालये जैनबिम्बस्थापयितुः सागरचन्द्रसूरेभक्त आसीत् (परि. १, श्लो. १४-२१) । यदीये राज्यकाल एव सं. १४७३ वर्षे जिनवर्धनसूरिणा लक्ष्मणविहाराख्यस्य पार्श्वजिनालयस्य शान्तिजिनालयस्य च प्रतिष्ठाऽकारि (परि. १२) । अयं स एव जिनवर्धनसूरियं सागरचन्द्रसूरिः सं. १४६१ वर्षे जिनराजसूरेः स्वर्गमनानन्तरं जिनराजसूरिपट्टे स्थापितवान् (ख.) । सप्तपदार्थाटीका-वाग्भटालङ्कारटीकाकर्ता च येन जिनवर्धनसूरिणा सं. १४६९ वर्षे प्रतिष्ठिता जिनराजसूरिमूर्तिरद्यापि देवकुलपाटके विद्यते । सागरचन्द्रसूरिय॑न्तरदयमानमस्य जिनवर्धनसूरेनतमालिन्यं विशङ्क्या पश्चात् समुदायात् पृथकृत्य तत्स्थाने जिनभद्रसूरिं सं. १४७५ वर्ष प्रतिष्ठितवान, यत्प्रभृति जिनवर्धनसूरितः पिप्पलखरतरशाखा निर्गता (ख.) । जेसलमेरो पञ्चायतपासादप्रतिकृत् (परि. ४) लक्ष्मणनृपस्य पुत्रो वैरिसिंहनृपश्छत्रधर-त्र्यम्बकदासो च नृपती जिनभद्रसूरेभक्ता आसन् (परि. ३) । तदानीन्तनास्तत्रत्या जनगृहस्था राजमान्या गच्छपतिजिनभद्रसूरिं
Jain Education International
For Private Personal Use Only
www.jainelibrary.org