________________
प्रस्तावना-संस्कृत प्रस्तावना-19
॥
(३)
समाजोऽतीवानुग्रहीत एतद्विषये केन किं वक्तव्यम् ? । किन्तु तादगलभ्यदुर्लभपुस्तकरत्नानामगारं साम्प्रतं कारागारमिव क्रियमाणं श्रुत्वा वा महापुरुषोद्गीर्णानामगणितगुणगणाकीर्णानां तेषां ग्रन्धानां दुर्दैववशात् कालक्रमेणासावधानतया जन्तुजातेन च जनितां जीर्णविशीर्णलुप्तप्रायां स्थितिं शृण्वतां केषां सहदयानां बत । शोको न समुत्पद्येत ? । सङ्ग्रहकर्तृणामुदारमाशयमनवबुध्यतां देश-क्षेत्र-काल-भावादिकमननुसरतां स्वयं तदुपयोग कर्तुमशक्नुवतामन्यांशानुपयोजयतां पूर्वोक्तां दुरवस्थितिं दृग्गोचरीकुर्वतामपि भाण्डागाररक्षकाणां दुरन्ता गजनिमीलिका कस्य सहदयस्य न दुःखाय ? । आशास्महेऽत्तः परमप्रसिद्धग्रन्थप्रकाशनप्रसङ्गे प्रशस्तपद्धत्या प्राचीनान् ग्रन्थान् प्रकाशयित्र्यै विश्वासार्हाय संस्थाया आदर्शपुस्तकप्रेषणप्रदानप्रवणा प्रशस्ता मतिरेषां प्रादुर्भवेत् ।
तपागच्छ-भाण्डागारः । तपागच्छोपाश्रयसत्कोऽयं भाण्डागारः केन कदा भत इति स्फुट न ज्ञायते. तथापि तपागच्छीयानन्दविमलसूरिशिष्यपं. वानरगणिशिष्यपं. आनन्दविजयगणिना सं. १६५९ वर्षे प्रतिमोचनेनार्य चित्कोशो वृद्धि प्रापितो ज्ञायते (पृ. ५३,५५) । हीरविजयसूरिमूर्तिरेतदुपाश्रये वर्तते । सप्तदशशताब्द्यां तपागच्छीयसाधूनां विचरणमित आसौदिति स्पष्टमवबुध्यते । तपागच्छाश्रितः सुपार्श्वजिनालयस्त्वर्वाचीनः सं. १८६९ वर्षे प्रतिष्ठितः (परि. २२) । बृहद्भाण्डागारादपि प्राचीनं सं. ११०९ वर्षे लिखितं |पशमीकहाग्रन्थस्य ताडपत्रीयमादर्शपुस्तकमत्र वर्तते (पृ. ५२); अस्मादेवादर्शात् सं. १५६१ वर्ष पं. आनन्दविजयगणिशिष्यपं, बुद्धिविमलेनानुलेखिते पत्तनभाण्डागारस्थे पुस्तके तु सं. १००९ वर्षे तत्ताडपत्रपुस्तकलेखनं समसूचि । एतस्मात् प्राचीनं ताडपत्रपुस्तकं नाद्यावधि कुत्राप्युपलब्धं श्रुतं वाऽस्माभिः । सं. १११५ वर्षे लिखिता हरिभद्रसूरिरचितपशाशकानां प्रतिरपि प्राचीनाऽत्र वर्तते (पृ. ५१) । एषां वृत्तिः सं. ११२४ वर्षे नवाझवृत्तिकर्ताऽभयदेवसूरिणा विहिता ।
डुंगरजीयति-सङ्ग्रहः । जेसलमेरुदुर्गे विवेकसमुद्रगणिना सं. १३३४ वर्षे विहितायाः पुण्यसारकथायाः पुस्तकमत्र प्रेक्ष्यते। उनविंशशताब्दीप्रणीतानि पुस्तकान्यपि सङ्ग्रहीतान्यत्र विलोक्यन्ते । सङ्ग्रहकर्तृविषये ज्ञातव्यं न किश्चिदपि ज्ञातम् ।
(४)
थीरु(थाहरु)शाह-भाण्डागारः । प्रो.श्रीधरभाण्डारकरेण चीमनलालदलालेन चैतद्भाण्डागारस्वामिनो नाम थीरुशा' इति दर्शितम्, किन्तु शिलालेखाधुलेखानुसारेण सप्तदशशताब्द्युत्तरार्धे विद्यमानो जेसलमेरुनिवासी जैनश्रेष्ठी थाहरुनामधेयः स विज्ञायते; येन सं. १६७५ वर्षे लोद्रवापत्तने चिन्तामणिपार्श्वजिनालयस्योद्धारः कारितः (परि. ६), चिन्तामणिपार्श्वजिनबिम्बमपि कारितम् । सं. १६८२ वर्षे यश्च सयपतिर्भूत्वा शत्रुाये गणधराणां पादुकाः स्थापयामास (एपिग्राफिआ इण्डिका २ । ६८) । यश्च पुनः सं. १६९३ वर्षे लोद्रवापुरि स्वजनश्रेयोऽर्थ नैकानि देवगृहानि कारयामास (परि. ७, ८, ९, १०, ११, १२) ।
चतुर्ध्वप्येषु पुस्तकसङ्ग्रहेषु यानि पुस्तकान्यत्युपयुक्तान्यवगतानि, तानि सर्वाण्यपि दलालेन प्रायोऽत्र संसूचितानि । एतन्मध्यात् केचिद् ग्रन्थाः सूचिपत्रसङ्कलनकाले मुद्रिता आसन, केचिद् ग्रन्थाश सू.सङ्कलन-मुद्रणकालयोः षड्वर्षप्रमाणेऽन्तराले मुद्रितास्तेषां समुपवेशनं न नाम निरर्थकम्; यतस्तत्तद्ग्रन्थानां पुनर्मुद्रणादिप्रसङ्गेऽशुद्धिसंशोधनाय त्रुटित-स्खलितांशपरिपूर्तये क्वचित् सन्देहापनोदादिप्रयोजनाय च स्फुटं वरिवृतीत्यावश्यकता । अत्र निर्दिष्टाश्च ये ग्रन्था मुद्रिता ज्ञातास्तान् तत्रैव (मु.) संज्ञया समज्ञापयम् । सोकर्येण ग्रन्थनामज्ञानार्थ सर्वेषामपि प्रायः षट्शतीग्रन्थानां वर्णानुपा सूची निवय प्रान्ते न्यवेशयम्, तत्राप्यप्रसिद्धग्रन्थान् चिन्हाङ्कितान् कृत्वा प्रादर्शयम् । तदनन्तरं तु जैनजेनेतरग्रन्थकर्तृणां तद्ग्रन्थनामोपेतानि नामानि समुपावेशयम् । अवशिष्टानीतिवृत्तोपयुक्तानि विशिष्टनामानि षड्विभागेन प्रान्ते समसूचयम् । अत्र सूचितान् विविधविषयकानप्रसिद्धान् अङ्गोपाङ्ग-मूलसूत्र-च्छेदसूत्र
Jain Education Internatione
For Private Personal Use Only
www.jainelibrary.org.