________________
20- प्रस्तावना - संस्कृत प्रस्तावना
(सी.डी.दलाल के सूधिपत्र के परिशिष्ट से उद्धृत जैसलमेर, लौद्रवा आदि मंदिरों के शिलालेख)
जेसलमेरुमन्दिरस्थशिलालेखाः ।
प्रकीर्णकादिजेनसिद्धान्तग्रन्थान्, जैनन्याय-वादग्रन्थान्, बौद्ध-नैयायिक-वैशेषिक-साङ्ख्य-वेदान्तादिदर्शनग्रन्थान्, जैनद्रव्यानयोग-गणितानुयोग-चरणकरणानुयोगोपदेश-धर्मकथानुयोगग्रन्थान्, जेनेतरकथा-चरितादि, व्याकरणकाव्य-छन्दो-उलकार-कोश-नाटक-प्रकीर्णग्रन्थान्, कल्प-मन्त्र-शकुन-काम-योग-स्तुति-स्तोत्रादिग्रन्थान, गुर्जरभाषाग्रन्थांश्च पृथकृत्य यथाविषयं विभज्य यावज्ज्ञातं तत्तद्विषयक रचनासमयपोर्वापर्यमनतिक्रम्य च ग्रन्थकर्तपरिचयेन साकं पृथक् पर्यचाययम्, यथाप्रसङ्गं पूर्वसूचिपप्रजाः स्खलनाश तत्रैव समशोधयम् । विक्रमीयपनदशशताब्द्या ऊनविंशशताब्दी यावज्जातानां लक्ष्मण-वैरिसिंह-चाचिगदेव-देवकर्ण-जयतसिंहलणकर्ण-कल्याणाक्षयसिंह-मूलराजसंज्ञकानां जेसलमेरुपुरीयनृपाणां तत्पूर्वजानां च सत्तासमयादि परि. १,२,३,४,५,१३,१४,१५,१६,१७,१८,१९,२१,२२ लेखपरिपठनेन शास्यत इति नात्र पुनरुलिख्यते ।
- जेसलमेरुदुर्ग गत्वा येनेतत् सूचिपत्रं परिश्रमेण सङ्कलितम्, यशःशेषः स चीमनलालदलालमहाशयः, येथेतत्कार्येऽनल्पां सहायतां वितीर्यतत्पन्था निर्विघ्नं सुसरलो व्यधायि; तेऽर्बुदगिरिप्रष्ठाधिकारिणः (जोधपुररेसिडेन्सी), भाण्डागारनियुक्ताश्च कथं नाम धन्यवाद नार्हन्ति ? ।
कार्य चास्मिन् प्रसङ्गोचितं साहाय्यं प्रदाय येनाहं प्रोत्साहितस्तस्यैतत्संस्कृतपुस्तकालयाध्यक्षस्य (संस्कृतलाइबेरियन्) एम्. ए. पदप्रतिष्ठितस्य जी.के.श्रीगोन्देकरमहाशयस्य, के.पी.मोदी. बी. ए. एल. एल्. बी. इत्यस्य, के. रङ्गस्वामिप्रभृतेस्तथा स्वसङ्ग्रहपुस्तकानि प्रदर्शयित्रोः प्रवर्तककान्तिविजयहंसविजयमुनीशयोचोपकृतिः स्मृतिपथात् कथमपि नापैति ।
सावधानतया प्रयत्नेन संशोध्य कृतेऽप्यत्युपयोगिन्यस्मिन् कर्तव्ये मम मतिमान्द्यात् प्रमादाद् वा जाता याः काश्चन स्खलना मतिमतां मतिमार्गारूढा भवेयुस्ताः प्रकृतिकृपालवः परिश्रमवेदिनः सहदयाः 'न हि सर्वत्र पाण्डित्यं सुलभं पुरुषे क्वचित्' इत्यभियुक्तोक्तिं हद्यवधार्य संशोधयिष्यन्ति मां च संसूचयिष्यन्तीत्याशास्ते
पार्श्वजिनालयस्य प्रशस्तिः । . ऐं नमः श्रीपार्श्वनाथाय सर्वकल्याणकारिणे । अर्हते जितरागाय सर्वज्ञाय महात्मने ।। १ विज्ञानदूतेन निवेदिताया मुक्त्यंगनाया विरहादिवात्र । रात्रिदिवं यौ विगतप्रमीलो विघ्नापनोदं स तनोतु पार्श्वः ।। २ समस्ति शस्तं परमर्द्धिपात्रं परं पुरं जेसलमेरुनाम । यदाह सर्वस्वमिव क्षमायाः कुलांगनाया इव सौवकांतं ।।३ तत्राभूवनखंडा यदुकुलकमलोल्लासमार्तडचंडा दोर्दडाक्रांतचंडाहितनरपतयः पुष्कला भूमिपालाः । येषामद्यापि लोकैः श्रुतिततिपुटकैः पीयते श्लोकयूषस्तत्पूर्ण विश्वभांडं कुतुकमिह यतो जायते नैव रिक्तं ।। ४ तत्र क्रमादभवदुनसमग्रतेजाः श्रीजेनसिंहनरराज इति प्रतीतः । चिच्छेद शात्रवनृपानसिनांजसा यो वज्रेण शैलनिवहानिव वज्रपाणिः ।।५ तस्य प्रशस्यो तनयावभूतां श्रीमूलदेवोऽथ च रत्नसिंहः । न्यायेन भुंक्तः स्म तथा भुवं यौ यथा पुरा लक्ष्मण-रामदेवो ।। ६ श्रीरत्नसिंहस्य महीधवस्य बभूव पुत्रो घटसिंहनामा । यः सिंहवन् म्लेच्छाजान् विदार्य बलादलाद्वप्रदरीमरिभ्यः ।।७ सुनंदनत्वाद्विबुधैर्नुतत्वाद् गोरक्षणाच् श्रीदसमाश्रितत्वात् । श्रीमूलराजक्षितिपालसूनुर्यथार्थनामाऽजनि देवराजः ।।८
ता. १-९-२२ सेन्ट्रल लाइब्रेरी, बडौदा.
गान्धीत्युपाह्वो भगवान्दासतनुजः
. लालचन्द्रः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.