Book Title: Jain Stotra Sangraha Part 02
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 14
________________ श्रीसाधुराजीयजिनस्तुतिः संसर्गेऽस्ति विवक्षायां प्रायो मत्वादयो मताः॥१॥इति उन्मार्गप्रवर्तकेन्द्रियमनःपरतन्त्र इत्यर्थः । अहं पुनः कथं भूतः खलहलीकेलामतिः खलाः कर्णेजपा हलिनश्च कृषीबलास्तेषां ई लक्ष्मी शोभामित्यर्थः, कायति स्वस्मिनिवासायाऽऽह्वयति के धातोः “आतोडोऽह्वा"-५।१।७६ ॥ इति डप्रत्यये खलहलीकः दुर्जनवदसदाक्यः कृषीबलवनिः श्रीकश्चेत्यर्थः ईडिक् स्तुतावित्यस्माद्धातोः “क्तेटो गुरोर्व्यञ्जनात् " ॥ ५। ३ । १०६ ॥ इति अप्रत्यये ईडा स्तुतिः तत्र मतिरभिप्रायो यस्य स तथा वैयधिकरण्येऽपि गमकत्वादुष्ट्रमुखादित्वात् समासः । एवम. न्यत्रापि ज्ञेयम् । ततश्च खलहलीकश्चासौ ईडामतिश्चेति विशेषणकर्मधारयः । त्वां पुनः कथं भूतं राङ्गभं रः कामे इति वचनात् रो मन्मथः स च कवि समये सुरूपो वर्ण्यते । अङ्गं वपुः तस्य भा दीप्तिरङ्गभारस्येव अंगमा यस्य स तथा तं, स्मरवत् सुभगिमलवणिमाञ्चितमित्यर्थः। पुनरप्यामन्त्रयते, हे चञ्चद्दाडिमद्र!

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 266