________________
श्रीसाधुराजीयजिनस्तुतिः संसर्गेऽस्ति विवक्षायां प्रायो मत्वादयो मताः॥१॥इति
उन्मार्गप्रवर्तकेन्द्रियमनःपरतन्त्र इत्यर्थः । अहं पुनः कथं भूतः खलहलीकेलामतिः खलाः कर्णेजपा हलिनश्च कृषीबलास्तेषां ई लक्ष्मी शोभामित्यर्थः, कायति स्वस्मिनिवासायाऽऽह्वयति के धातोः “आतोडोऽह्वा"-५।१।७६ ॥ इति डप्रत्यये खलहलीकः दुर्जनवदसदाक्यः कृषीबलवनिः श्रीकश्चेत्यर्थः ईडिक् स्तुतावित्यस्माद्धातोः “क्तेटो गुरोर्व्यञ्जनात् " ॥ ५। ३ । १०६ ॥ इति अप्रत्यये ईडा स्तुतिः तत्र मतिरभिप्रायो यस्य स तथा वैयधिकरण्येऽपि गमकत्वादुष्ट्रमुखादित्वात् समासः । एवम. न्यत्रापि ज्ञेयम् । ततश्च खलहलीकश्चासौ ईडामतिश्चेति विशेषणकर्मधारयः । त्वां पुनः कथं भूतं राङ्गभं रः कामे इति वचनात् रो मन्मथः स च कवि समये सुरूपो वर्ण्यते । अङ्गं वपुः तस्य भा दीप्तिरङ्गभारस्येव अंगमा यस्य स तथा तं, स्मरवत् सुभगिमलवणिमाञ्चितमित्यर्थः। पुनरप्यामन्त्रयते, हे चञ्चद्दाडिमद्र!